Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Coboob
मनसि किञ्चिन्मात्रमपि मूल्यं न स्यात् किन्तु तस्य कृते तु तन्महत्त्वपूर्णमासीत् । अपरं च तस्य प्रतिभैव तादृश्यासीद् यदस्य पुरतोऽसत्यभाषणं स्वल्पमपि कर्तुं नोचितमित्यहमनुभूतवान् !
'बाकविषयेऽहं किमपि न जानामि' - किञ्चिद् दुविधयाऽहमुक्तवान् - 'तस्य सङ्गीतं हि पूर्वं कदाऽपि मया नैव श्रुतम्' ।
आइन्स्टाइनमहोदयस्य मुखेऽपि व्यग्रतामिश्रितमाश्चर्यं प्रसृतम् । 'अपि बाकमहोदयस्य सङ्गीतं नैव श्रुतं भवता ? ' तस्य घोष एव तादृश आसीद्, यथा कश्चित् पृच्छतीव-अपि भवता कदाऽपि स्नानमेव न कृतम् ? इति ।
मया त्वरितं प्रत्युत्तरितम् - 'सङ्गीतविषयेऽहं बधिरप्रायोऽस्मि । कस्याऽपि सङ्गीतं मया श्रुतं नाऽस्तीत्येव सत्यम्' इति ।
वयोवृद्धस्य तस्य महाशयस्य मुखे चिन्ता व्याप्ता । 'अपि मया सहाऽऽगमिष्यति भवान् ?' अकस्मादेव स पृष्टवान् ।
उत्थाय च स मम हस्तं गृहीतवान् । जनसम्मर्दमध्यात् स मां बहिर्नीतवान् । विकला च मम दृष्टिरास्तरण एव कीलितेव जाता । एतद् दृष्ट्वाऽऽश्चर्यचकितेषु जनेषु मन्दं मन्दं जायमानः कलकलध्वनिः खण्डाद् बहिर्निर्गमनं यावदस्माभिः श्रुतः । किन्तु, आइन्स्टाइनमहाशयस्तं बाढ मुपेक्षितवान् ।
दृढतया स मां गृहस्योपरितनभूमिकां नीतवान् । स हि तद्गृहस्य व्यवस्थया सम्यक् परिचितोऽस्तीति तस्य व्यवहारेण प्रतीयते स्म । खण्डमेकमुदघाट्य स मामन्तरुपवेशितवान् । स्वयं च तस्य द्वारं पिहितवान् । पश्चाद् वेदनामिश्रितेन स्मितेन स मां पृष्टवान् - 'अथ कथयतु नाम यत्-सङ्गीतविषये एतादृशो भावः कियता कालेन प्रवर्तते ?'
'आ प्रारम्भादेव' - अहमुक्तवान् । अनेनाऽस्वास्थ्यमहमनुभवन्नासम् । अत: - ‘डॉ. आइन्स्टाइनमहोदय ! अहमिच्छामि यद् भवानधः सभायामुपविश्य सङ्गीतमास्वादयतु नाम । अहं तदास्वादयितुं न शक्नोमीत्यस्य नाऽस्ति तावत् किमपि महत्त्वम्' इति कथितवानहम् ।
एतच्छ्रुत्वा स तथा मस्तकं व्यधूनयद् यथा मया किमप्यसम्बद्धं
Jain Education International
९८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146