Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ अनुवादः। सौन्दर्यस्य नवं द्वारम् __ मू. - जेरोम वीडमनः अनु. - मुनिरत्नकीर्तिविजयः एकदा कस्यचित् प्रसिद्धजनस्य गृहे भोजनायाऽहं निमन्त्रणं प्राप्तवान् । भोजनानन्तरं दृश्यद्वयं दृष्ट्वाऽहं किञ्चिदस्वस्थोऽभवम् । एकं तु, सेवकास्तत्र चतुष्पदीनां विन्यासं कुर्वाणा आसन् । अन्यच्च समक्षमेव भित्त्याः समीपे वाद्यानि स्थापितान्यासन् । मयाऽद्य सङ्गीतं श्रोतव्यं भविष्यतीति तेनाऽहं कल्पितवान् । 'श्रोतव्यं भविष्यतीति शब्दप्रयोगोऽयं मम साभिप्रायोऽस्ति । यतः सङ्गीतं हि मम कृते सर्वथाऽर्थशून्यमेवाऽऽसीत् । प्रायोऽहं स्वरबधिर एवाऽऽसम् । सामान्यानपि स्वरानहं बहुप्रयत्नेनैवाऽभिज्ञातुं शक्नुयाम्; तत्राऽपि गभीरं वा शास्त्रीयसङ्गीतं तु मम कृते विविधानां ध्वनीनां मिश्रणमेव केवलमासीत् । अतो हि यत्र कुत्राऽप्यहमेवं पाशबन्धनमिवाऽनुभवेयं तदा यां रीतिं प्रयुज्यां तामेव रीतिमहमत्राऽप्युपयुक्तवान् – एकत्र स्थानं गृहीत्वा मुखं च बोधभावेन प्रशंसाभावेन चोपलिप्य कर्णव्यापारं च स्थगयित्वा विचारपरम्परायामहं लीनो जातः । किञ्चित्कालानन्तरमहमनुभूतवान् यन्मां परित उपविष्टा जनाः करतलध्वनिना सङ्गीतविषयकं स्वकीयमानन्दमभिव्यञ्जन्ति स्म । अतो मयाऽपि सावधानेन भवितव्यमित्यहं विचारितवान् । तावद् मृदुरपि विस्मयावहो हृदयस्पर्शी कश्चिद् ध्वनिमया श्रुतः - 'बाकमहाशयस्य सङ्गीतं भवते रोचते खलु ?' इति । बाकविषयकं मम ज्ञानं तावदेवाऽऽसीद् यावदणुविस्फोटनविषयकम् । किन्तु, नित्यमोष्ठद्वयमध्यस्थितधूमवर्तिकस्य विकीर्णश्वेतकेशस्य विश्वप्रसिद्धस्य च तस्य जनस्य मम सम्यक् परिचय आसीत् - अहं हि 'आल्बर्ट आइन्स्टाइन'महोदयस्य समीप उपविष्ट आसम् । . 'हं.....' अस्वस्थतयाऽहं प्रत्युत्तरितवान्; किञ्चित् क्षोभमपि प्राप्तवान् । प्रश्नोऽयं स्वाभाविकतयैव पृष्ट आसीत् । प्रत्युत्तरं हि मया कदाचिदुपेक्षया प्रदत्तं स्यादपि किन्तु मम समीपोपविष्टस्य तस्य महाशयस्याऽनन्यसाधारणी दृष्टिरेवं सूचयन्त्यासीद् यन्नैष व्यवहार औपचारिकः केवलम् । वार्तालापस्याऽस्य मम ९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146