Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ स्मरणम् मुनिधर्मकीर्तिविजयः पूज्यपादगुरुवर्यैः सह वयं सर्वेऽपि वर्षत्रयात् पूर्वं गूर्जरराज्यस्थे 'कच्छ'प्रदेशे दर विहरामः स्म । 'मांडवी-सुथरी-लाला-जखौ-नलिया' इत्यादीनां विभिन्नक्षेत्राणां तीर्थरूपाणि नयनरम्याणि कलाकृतिमयानि च जिनमन्दिराणि दृष्टानि । एवं तत्रस्थानां पुरातनकालीनानां चित्ताह्लादकारिणीनां प्रशान्तवदनानां च जिनप्रतिमानां दर्शनं विधाय प्रफुल्लितमानसा वयं विहरन्तः 'तेरा' ग्रामे आगतवन्तः । सायङ्काले भिक्षार्थमहं गतवान् । तत्र न कानिचिदपि श्राद्धानां गृहाण्यासन्, तत आहारार्थं भोजनशालायामेव गन्तव्यमासीत् । आवश्यकमाहारादिकं गृहीत्वोपाश्रयं समागतोऽहम् । कारणवशाच्च पुनस्तत्राऽहं गतवान् । ततो यदा प्रतिनिवर्तमान आसं तदा वर्त्मन्येका दीर्घकाया हृष्टपुष्टा तीक्ष्णशृङ्गा रक्तवर्णा च गौर्मे सम्मुखमागच्छन्ती दृष्टा मया । मां निरीक्ष्य प्रत्यक्षमेव स्थितवती सा । पश्चात्तु यथा यथाऽग्रे गन्तुं प्रयते स्माऽहं तथा तथा साऽपि मां प्रत्यागच्छन्त्यासीत् । मां दर्श दर्शं शृङ्गमूर्वीकृत्य ताडयितुमुद्यतेव साऽऽसीत् । नाऽग्रे गन्तुं न च प्रत्यावर्तयितुमपि शक्त आसमहम् । अग्रे गन्तुं कृताः सर्वेऽपि प्रयत्ना निष्फला जाताः । एवं दशक्षणा व्यतीताः । अहं तु नितरां भीत: ! द्रस्तस्थानि पात्राणि पतिष्यन्ति, गृहीत आहारो भूमौ पतेत्, हस्तपादा अपि व्रणिता भवेयुः । अतः 'किं भवेत् ?' इति चिन्तयतो मे देहे कम्पनमारब्धं, श्वासोच्छवासस्य गतिरपि वृद्धि गता, समग्रो देहः स्वेदक्लिन्नो जातः । । स मार्गोऽपि निर्जन आसीत् । वर्त्मनि गमनागमनं कुर्वन्तो न केऽपि जना | दृष्टिपथमागच्छन् । अन्ते, शनैः शनैर्मार्जारपदेन पृष्ठपादेन च मया भोजनशालां | प्रत्यावर्तयितुं प्रयत्न आरब्धः । सक्रोधं रक्तनेत्रवती साऽपि तामेव दिशं प्रत्येवाऽऽगतवती। यदा मया भोजनशाला दृष्टा तदाऽतित्वरया गत्या धावमानोऽहमन्तः प्रविश्य द्वारं | पिहितवान् । साऽप्युच्छलन्ती सक्रोधं भोजनशालायाः प्राङ्गणे प्रविश्य नेत्रकर्णमूर्वीकृत्योत्थिता। तदा तत्रत्यैर्जनैः पृष्टोऽहं सर्वं कथितवान् । अन्ते तैर्जनैः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146