Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ सर्वं सत्त्वे प्रतिष्ठितम् मुनिरत्नकीर्तिविजयः दृढसत्त्वानां देवा अपि सान्निध्यं विदधतीति जगति विदितमेवैतत् । बहुभिश्च जनैरेतत् सत्यमनेकशोऽनुभूतमपि परमपूज्यशासनसम्राजां परमगुरुवराणां श्रीविजयनेमिसूरीश्वराणां जीवने। __ एतादृशाननुभवान्, ये केचिच्छ्राद्धा यदा कदाचित् कस्मिंश्चित् प्रसङ्गे उपस्थिता आसन् ते पूज्यगुरुभगवतां दिवं गमनानन्तरं पूज्यानां शिष्यप्रशिष्यादिपरिवारस्य पुरतो यदोल्लिखितवन्तस्तदैव ते ज्ञाताः । 'यत्र चमत्कारस्तत्र नमस्कारः' इत्युक्तिलॊके प्रचलिताऽप्यस्ति । किन्तु नाऽत्राऽऽसीत् कोऽपि चमत्कारः । यतो लोकरञ्जनाय भवति चमत्कारः । आध्यात्मिकविकासे हि बाधकः सः । अतो दृढसत्त्वा महात्मानो न कदाऽपि चमत्कारं पुरस्कुर्वन्ति । ते हि स्वाभाविकतयैव वर्तन्ते । किन्तु यदा कदाचित् तादृशः कश्चित् प्रसङ्ग उपस्थितो भवति येनाऽस्मादृशाः सामान्या जनाः 'अहो ! अशक्यप्रायमेतद्' इति कृत्वा तं चमत्काररूपेण प्रस्तुवन्ति । वस्तुतस्तु तत्र तेषां महापुरुषाणां दृढसत्त्वेन विशुद्धचारित्र्येण चाऽऽकृष्टा देवाः स्वयं सन्निधिं कृत्वा कार्यं साधयन्ति । एतादृश एव कश्चित् प्रसङ्गो वि.सं. १९९०तमवर्षे समुपस्थितः । श्रेष्ठिवर्यश्रीमाणेकलाल-मनसुखभाई-श्राद्धेन परमगुरुभगवतां शासनसम्राजां सान्निध्ये राजनगरात् श्रीशत्रुञ्जयमहातीर्थस्य पदयात्रासङ्घ आयोजितः । (स हि पदयात्रा-सङ्घोऽद्याऽपि 'माकुभाई-श्रेष्ठिनः सङ्घः' इति कृत्वा पुनः पुनः स्मर्यते जनैः ।) सार्धमासपर्यन्तं शासनसम्राड्-गुरुभगवतां सान्निध्यं सम्प्राप्स्यत इति कृत्वा समग्रादपि भारतवर्षाद् यात्रालवः समुपस्थिता बभूवुः । तस्मिंश्च सङ्के यात्रिकाणां त्रयोदशसहस्री सम्मीलिताऽभूत् । अन्या च रथशकट-चलमन्दिर-हस्त्यादिका विपुला सामग्री त्वासीदेव । "कथमेतन्निर्विघ्नं सम्पत्स्यते ?' इति कस्यचिच्छ्रावकस्य मनसि शङ्का समुद्भूता । स हि गुरुभगवतां समक्षमुपस्थितोऽभूत् । गुरुभगवन्तस्तु 0000000ood ON OODON ७८ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146