Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ वि. सं. १९७२ वर्षे पूज्यपादः शासनसम्राट् सूरीश्वरो राजस्थानमध्ये 'फलोधी' ग्रामे चतुर्मासी स्थित आसीत् । तदा हि बहवः साधुवरा ज्वरेण पीडिता आसन् । ततस्तेषां ज्वरपीडितानां साधुजनानां कृते स्थैण्डिलशुद्ध्यर्थं निर्जीवभूमेरावश्यकताऽऽसीत् । तदर्थं पूज्यपादेन श्रावकवर्यस्य 'श्रीफूलचन्दजी गोलेच्छा' महोदयस्य निर्जनमेकं स्थानं याचितम् । तेन महोदयेनाऽपि दत्ताऽनुमतिः । एकदा श्रीपद्मविजयमहाराजोऽस्मिन् स्थाने स्थण्डिलशुद्ध्यर्थं गतवानासीत् । तस्मिन्नैव काले गोलेच्छामहोदयस्य सेवकस्तत्राऽऽगतवान् । तेन तत्स्थानस्य द्वारमुद्घाटितं दृष्टम् । 'कथमुद्घाटितम् ? अन्तः कोऽप्यस्ति न वा?' इति किमप्यविचिन्त्य तेन द्वारं पिहितम् । स तु ततो निर्गतवान् । इतस्तेन श्रीपद्मविजयमहाराजेन तद्द्वारमुद्घाटयितुं बहवः प्रयत्नाः कृताः, किन्तु सर्वेऽपि ते प्रयत्ना निष्फला जाताः । पश्चात्तेन मुनिराजेन श्रीउदयविजयमुनिराजस्य नाम्नोच्चैराह्वानं कृतं, केनाऽपि न श्रुतम् । दीर्घकालो व्यतीतः । अतः पूज्यपादस्य मनसि प्रश्न उद्भूतः - 'एष साधुर्दीर्घकालाद् गतः, कथं पुनर्नाऽऽगतवान् ?' इति । तत्क्षणमेव तत्साधोरन्वेषणार्थं केचित् साधवो बहिर्गतवन्तः। अन्ते, कारणं ज्ञातम् । द्वारमुद्घाटितम् । पूज्यपादस्य चित्तमुद्विग्नं जातम् । तेन स सेवक आहूतः । उक्तश्च - 'भो ! वयं तु जैनसाधवः, सर्वमपि सहामहे । किन्तु भवता कदाऽपि संन्यासिनः । फकीरादयश्चाऽपि न सन्तापनीयाः । सर्पदशनादिदुष्फलं तेन प्राप्यते' । सोऽप्येतदङ्गीकृत्य ततो गतवान् । दैवात् स तत्स्थाने एवैकत्र स्थितं वत्सं निरीक्षितुं गतवान् । वत्सस्य पार्वे स्थितस्य घासपुञ्जस्य मध्ये कश्चित् सर्प आसीत् । स च तं तदा दष्टवान् । मूर्छामापन्नः स भूमौ पतितः । तं तथा दृष्ट्वा कश्चिद् गोलेच्छामहोदयाय निवेदितवान् । स हि त्वरितं तत्र प्राप्तवान् । गोलेच्छामहोदयस्य माता पूज्यपादस्य सकाशं गत्वाऽनुनीतवती यद् ‘माताऽस्य वृद्धाऽस्ति । तस्याश्चाऽयमेकल एव पुत्रः । अतः कृपां विधायाऽस्य रक्षणं कुर्वन्तु भवन्तः ।' ( १. प्रस्रवणमलादिविसर्जनार्थम् । शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146