Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 97
________________ гулуллулулл नमो नमः श्रीगुरूनेमिसूरये ।। HAR मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव स्वास्थ्यमनुकूलं वर्तेत । वयं सर्वेऽपि कुशला निरामयदेहाश्च स्मः । सौराष्ट्रदेशस्य विहारयात्रां समाप्य चातुर्मास्यर्थं कर्णावतीनगरे आगतवन्तो वयम् । अद्य पाश्चात्यशिक्षणमुपलक्ष्य किञ्चिद् लिखामि । शिक्षणस्य विशेषत आवश्यकताऽस्ति, इति बोधोऽद्य देशस्य सर्वासामपि व्यक्तीनां चित्ते प्रवर्तते । बाल्यकालादेव बालमानसे पठनस्य तीव्रभारश्चिन्ता च विद्यते । अद्य बालकस्य बौद्धिकविकासो विशेषो दृश्यते । बाह्यदृष्ट्या पञ्चाशद्वर्षीयजनस्य बोधादपि पञ्चदशवर्षीयबालकस्य बोधो विशेषः सूक्ष्मश्च विज्ञायते । अत्र पाश्चात्यशिक्षणस्य प्रभाव एव कारणम् । अद्य प्रतिदिनं देशे समाजे च पाश्चात्यशिक्षणस्य महत्ता वृद्धि गता दरीदृश्यते । अहो ! पाश्चात्यशिक्षणं त्वस्माकं प्रतिष्ठाविषयः (status) कुलगौरवं चाऽस्तीति मन्यतेऽस्माभिः । गूर्जरभाषयाऽन्यभाषया च पठन् बालको हीनोऽस्तीति विचारधाराऽपि प्रवर्तते । तत एवाऽऽर्थिकस्थित्या मध्यमवर्गीयाः सामान्यजनाश्चाऽपि पाश्चात्यशिक्षणस्य दुराग्रहमासेवन्ते । बन्धो ! पाश्चात्यैर्भारतदेशे पाश्चात्यशिक्षणस्यैतादृश्या महत्तायाः स्थापनार्थं कथं बहुशो विविधाश्च प्रयत्नाः क्रियन्ते, इति किं त्वं जानासि ? भो ! अत्राऽपि तेषामाङ्ग्लजनानां दुराशयोऽस्ति । अद्यावधि तैराङ्ग्लजनैरार्यसंस्कृत्या नाशार्थं बहुशो बहुरीत्या च प्रयत्नाः कृताः, किन्तु सर्वेऽपि ते प्रयत्ना निरर्थका जाताः । विश्वस्मिन् विश्वेऽद्याऽऽर्यसंस्कृतिः सर्वमान्या विद्यते । आर्यजनैरेव तेषां पाश्चात्यानां शरणं नोररीकृतम् । एवमार्यजना एव तेषां दुष्टनीति दुराशयं च प्रत्याह्वयन्त्यपि । अतोऽन्ते तैः पाश्चात्यैरेतस्याः शिक्षणशैल्या आश्रयः कृतः । अस्माकं दुर्भाग्यं यदेषा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146