Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
व्यवहृतिपदं नाम्ना नैवाऽन्तरेण यतस्ततो नवमुनिमसौ नेमिद्धति प्रधानपदं व्यधात् । विजयचरमं तं तु स्पष्टीकृतार्थविशेषकं गुणगणसमृद्ध्यादेरन्वर्थतास्पदमाबभौ ॥ ३५ ॥ अपरमुपमातीतं बालं गुणैक निकेतनं सुकृतनिचयावासं लास्यं प्रतापनिधेर्वरम् । अभिनवपदं वाण्या देव्याः सुभाव्यमखण्डितादतनुतपसो नेमिः शिष्यं चकार यशोऽभिधम् ॥ ३६ ॥ द्विजदिनकरादेतौ नव्यौ मुनी विमलद्युती
पपठतुरतिप्रौढौ तस्याऽऽज्ञया च मुनीशितुः । सुगुरुकृपया तौ द्वौ नित्योद्यतौ पठनेऽचिरात् समियतुरतिप्रौढिं शब्दप्रयोगप्रतिष्ठितौ ॥ ३७ ॥ पुनरपि मुनिर्नेमिः सङ्ग्राग्रहात् पुरमाययौ सुकृतनिचयैस्तेषां कृष्टो नुतं कलितप्रथम् । अथ मनसुखभ्राता चिन्तामणेः स प्रतिष्ठितिं 'मुनिवरसमादेशाच्चक्रे समुत्सवपूर्वकम् ॥ ३८ ॥ गुरुवरममुं श्रेष्ठी धीमान् विचार्य विचक्षणं पुरि मनसुखभ्राता तस्यां स योगतपस्ततिम् । गुणमणिनिधिं गम्भीराख्यं सुकारयितुं गणि समयनिपुणं प्रार्थ्योल्लासात् समानयति स्म तम् ॥ ३९ ॥ ससुमतिसुखाम्भोधिं नेमिं सुधर्मप्रवर्त्तकं
विमलधिषणप्रेमप्रोद्यत्तपश्चयसम्भृतम् । विदितसमयो योगग्रामैक सेवनकर्मठो
Jain Education International
विहितसमये योगारम्भं त्वकारयदेष सः ॥ ४० ॥ उदयति मतिर्नव्या भव्यप्रवृत्तिविधायिनी कलयति फलां यस्माच्चित्तप्रवृत्तिनिरोधिनीम् ।
अनुभवति शं स्वात्मा भिन्नं यतो मुनिरार्हतः स विधिलसितो योगस्तेषां सुमन्त्रचितोऽभवत् ॥ ४१ ॥
शासनसम्राड् - विशेष:
५७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146