Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
क्षपयति यतः कर्मक्लिष्टं निरूढमपि क्षणात् करणपटुतां तत्तदोषक्षयालभते यतः । विहितकरणे वृत्तिं शङ्काकलविवर्जितां प्रथयति यतः सोऽयं योगस्तदाऽभवदुज्ज्वलः ॥ ४२ ॥ सविधितपसा कञ्चित् कञ्चित् सुपारणकर्मणा दिवसमनघं भिक्षावृत्त्या सुखं गमयन् मुनिः । पुरजनमनस्तोषं कुर्वन् स नेमिरभीप्सितैरथ च समये योगं चक्रे श्रुताध्ययनाञ्चितम् ॥ ४३ ॥ श्रुतसमुदितं योगं कुर्वन् गणीश्वरपार्श्वगो मुनिरगमयद् वर्यं तं च व्यतीतपदं कृती । अथ वसुशरा२न्दौ (१९५८) वर्षे स भावपुरालयं वणिजमकरोच्छिष्यं दीक्षां प्रदाय सुमङ्गलाम् ॥ ४४ ॥ स नयविजयो नाम्ना ख्यातो गुणालिविराजितः व्रतसमुदये दक्षो मासोपवासमुख्नेऽभवत् । अपठदनिशं शाब्दं शास्त्रं मुनीश्वरशिक्षयाऽप्यनुमतिमितः पित्रोर्दीक्षाग्रहे य उदारधीः ॥ ४५ ॥ सुविहिततपस्तत्रोलासैर्जनेष्वभितः कृती जिनमतरुचिं तन्वन्नीतिं सुयोगविशारदः । हितमुपदिशन् चातुर्मास्यं सुख्खन निनाय सः प्रकृतिगहनं योगं कुर्वन् तु शास्त्रविधानतः ॥ ४६ ॥ अथ मणिवणिक् छोटा धाता सुधर्मधुरन्धरो जिनमतरतो लल्लुभातुस्तनूद्व आदरात् । सुकृतनिचयैर्यात्रां सिद्धाचलस्य विधित्सया मुनिवरममुं सङ्के गन्तुं चकार सुप्रार्थनाम् ॥ ४७ ॥ मुनिरपि निजानपेष्टार्थोपदेशप्रतिश्रुतेरभिमुखमुपक्रान्ते कार्ये निरीक्ष्य तमर्थिनम् । गुणगणभृता साकं गम्भीरसञ्जमुनीशिताउभ्युपगतिवचोदानाच्चक्रे प्रमोदसुतुन्दिलम् ॥ ४८ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146