Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ स च मनसुखभ्राता तेष्वग्रणीः शुभमत्रणां मुनिवरममुं कालेऽपृच्छत् तदुन्नतिदीक्षितः । दलपतिसुतो लालभाता प्रधानपदस्थितोऽप्यनुदिनमगात् कर्तुं मत्रं तदन्तिकमादरात् ॥ २८ ॥ अवितथवचस्सीमामेवाऽऽश्रयन्मुनिराट् स तद्धितमुपदिशन् मन्त्रं ताभ्यां ददौ तमकल्मषम् । यदनुसरणादिष्टं सद्योऽभवन्निरुपद्रवं सुनयकलितं बह्वायासप्रसाध्यमपि श्रिया ॥ २९ ॥ अभिनवता संस्था साऽभूत् तदीयविचारतः सुकृतनिचये दक्षा कक्षीकृताप्तसुमत्रणा । नूपपुरुषतो यस्याः कृत्योच्चयस्य परीक्षणं फलपरिणतेरुहापोहात् कथञ्चिदजायत ॥ ३० ॥ इति मुनिवरो नेमिस्तां तां फलोच्चयशालिनीमुपकृतविधां सङ्के कुर्वन्ननर्थप्रभञ्जनीम् । नवनवमतध्वान्तोच्छेदक्रियापरिनिष्ठितोडगमयदनघं वर्षं पूर्ति तमिष्टचयाञ्चितम् ॥ ३१ ॥ अथ विहरणाकाक्षं नेमिं गुरुं मुनिपुङ्गवं स तु मनसुखभ्राता श्राद्धालिभिः सह सादरात् । स्वनगरवरे भूत्यै भूयोऽप्ययाचत साञ्जलिः स्थितिमसुलभां तत्तद्धर्मप्रवृत्तिचमत्कृतः ॥ ३२ ॥ स्थितिमनुसरन् पूर्वाचार्याक्त पद्धतिमात्रगां कथमपि मनस्तोषं तेषां विधाय मुनीश्वर: । पुरि पुरि जनामोदं कुर्वन् वचोमृतसेचनैविहरणमुपश्लोक्यं नेमिश्चकार सुधर्मवित् ॥ ३३ ॥ अथ पुरवरे कासिन्द्राख्ये स गुर्जरभूषणे सुमतिनिलयं श्राद्धं रागप्रवृत्तिविवर्जितम् । सुमतिविजयस्याऽऽद्यं शिष्यं चकार सुदीक्षया जिनमतरतं जैन्या चैकं शुभार्पितया मुनिः ॥ ३४ ॥ ५६ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146