Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ उपकृतिपरा जैने सङ्घ समुन्नतिकारिणी विविधविषयान् मन्त्रान् सम्यग् विधातुमपि क्षमा । समितिरनघा योग्ये कालेऽथ तत्त्वविवेचिका सुमतिजनतोल्लासा तस्योल्ल्लास कृपार्थिनी ॥ २१ ॥ कृपणजनता यस्यां नैवाऽऽससाद निजस्थितिं सुकृतविषयो यस्याः सर्वात्मनाऽभवदाग्रहः । अहमहमिका यस्यां कृत्ये स्वतो जनमात्रगा परिचयमिता केषां सैषा न मोदविधायिनी ? ॥ २२ ॥ तदधिकभयान्नव्याः पत्रप्रवृत्तिपरायणाः Jain Education International सुकृतविमुखं लेख्यं निन्द्यं जहुर्नवशिक्षिताः । मुनिजनवृथानिन्दावाचालताऽपि कुभाग्यजा प्रतिहतपदा तस्याः प्राज्योदये भयतोऽभवत् ॥ २३ ॥ इति दृढतरा जैन श्रद्धाप्रतिष्ठजनैः सभा मुनिवरशुभादेशोद्युक्तै रराज प्रवर्त्तिता । सुकृतनिचयोद्भूत्या सङ्घोपकृत्यतिलालसैः सुमतिमहितैर्लभ्या श्राद्धैः प्रवेश्यतया च सा ॥ २४ ॥ अथ सुकृतिनां संस्था याऽऽनन्दजीति भुवि श्रुता चरमघटना यस्याः कल्याणजीत्युपशब्दिता । अमितवसुता यस्याः सिद्धाचलादिषु यात्रिभि - वितरणबलात् सप्तक्षेत्र्यां क्रमेण विनिर्मिता ॥ २५ ॥ उपकृतिविधिः सङ्गे यस्याः प्रबन्धबलाद् वरः कुनयजनिताशाताद् रक्षा च तीर्थचये वरा । उपचितधनैः स्थाने स्थाने सुजीर्णसमुद्धतिप्रभृतिरभवद् ग्रामे ग्रामे सुकृत्यचयो यतः ॥ २६ ॥ तदुचितघटास्थित्यै पञ्चाऽपि धर्मधुरन्धरा नृपनगरगा ये सन्नीतिप्रपञ्चविशारदाः । जिनमतरतानल्पश्राद्धैकमत्यसमादिता वरकुलभवाः सङ्घस्येष्टाः सदोदयशालिनः ॥ २७ ॥ शासनसम्राड्-विशेषः ५५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146