Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 60
________________ बहुविषयगस्तस्मिन् वर्षे त्ववृष्टिसमुद्भवोSभवदसुमतां दुर्भिक्षाह्वोऽसुखैकनिकेतनः । मरणशरणा भिक्षालाभाद् बभूवुरनल्पशो विगतविभवा यस्मिन् सम्बन्धिनाऽप्यवधीरिताः ॥ ७ ॥ अपगतजलप्राया बीजप्ररोहविवर्जिता Jain Education International तृणमपि न वै दातुं शक्ता पशुभ्य इलाऽभवत् । पतिरपि दयाहीनो दत्ते पशूनुदरम्भरिः कुगतिगमनाभीरुर्यस्मिन् ददौ धनलाभतः ॥ ८ ॥ निजनिजकरव्यग्रा भूयात् स्वकोशसुरक्षणे धनचयपरानर्थान् दातुं क्षमा व्ययभीरवः । इति मुनिवरो नेमिस्तस्मिन् कृपाम्बुधिरार्हतान् हितमितसुधादेशोल्लासैश्चकार समुद्यतान् ॥ ९ ॥ उपचितमभूत् सद्यः श्राद्धैर्द्विलक्षमितं तदा मुनिवरसमादेशाद् रूप्यं वणिकुकुलभूषणैः । यवनकरतो गास्ताः क्रीत्वा त्वमोचयदञ्जसा समुचितधनैस्तासां रक्षापरोऽप्यभवत् पुनः ॥ १० ॥ कृतमनुपमं श्राद्धैः श्रीमन्मुनेरुपदेशतः पशुगणमहद्दुःखोद्धृत्यै व्यवस्थितिबन्धनम् । यत उदभवत् संस्था पङ्गवादिदुःखनिवारिणी जगति प्रथिता लोकैः सा पिञ्जराभिधया वरा ॥ ११ ॥ सुकुलप्रभवान् श्राद्धान् दीनानितस्तत आगतान् व्यपगतधनान् भिक्षावृत्त्योपजीवितुमक्षमान् । अमितमहिमा नेमिः श्राद्धैररक्षयदार्त्तितो वसुवितरणैर्योग्यैः स्वीयोपदेशविबोधितैः ॥ १२ ॥ अवनपरता नेमेर्याऽभूत् तदोपधिवर्जिता परमदयया जन्तौ मृत्योर्मुखादपि पालिनी । अभवदनया लोके कीर्तिर्गुणज्ञवितानिता यदि निरुपमा तत्किं कामस्तयाऽनुमितो मुनिः ॥ १३ ॥ शासनसम्राड्-विशेष: ५३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146