Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अनल्पैदृष्टान्तैरनुगतमबाध्यैरविकलैः प्रभूतार्थोपेतं श्रुतपरिचितं युक्तिनिचितम् । नयैस्तैस्तैः स्थाने कृतपरिचयं दोषविमुखं तदीयं व्याख्यानं समभवदुपादेयमखिलैः ॥ ७ ॥ न कोऽप्यासीच्छ्रोता मधुपुरपुरे योऽस्य वचनैविदित्वा तत्त्वौघं न च समभवन्मोदकलितः । श्रुतेऽस्य व्याख्याने विषयपरततोऽपि च जनो बभूवोक्तो मुक्तौ क्षणमनुभवन् धर्मसरणिम् ॥ ८ ॥ पिता लक्ष्मीचन्द्रोऽभवदिह पुरा योऽस्य विमुखः । सुदीक्षोपादाने सुतविरहदुःखाकलितधीः । स एव व्याख्यानं नयविषयमार्ण्य निजकं कुलं तेनाऽमस्त प्रथमगणनीयं क्षितितले ॥ ९ ॥ सपुत्रां स्वां मेने जिनमतविदा तेन मुनिना गुणाढ्या दीपाली जगति जननीषु प्रमुदिता । स पद्माताराख्यः प्रथित इह कुटुम्बोऽतिप्रथितः कुटुम्बेष्वेतेनाऽभवदतिप्रसिद्धेन विदुषाम् ॥ १० ॥ विरक्तः श्रीनेमिः पितरमपि तं सन्निधिगतं समं श्राद्धैरन्यैरक्लयदुदारेण मनसा। कदाचित् कस्मिंश्चिद् विमतिपरतत्रं पुनरमुं शशास स्पष्टोक्त्या परजनमिवाऽतीव समदृक् ॥ ११ ॥ सृते व्याख्यानं नो विषयविरतं नेमिविजयं स्त्रियो द्रष्टुं शक्ता अपि सुकुलजाताः समभवन् । अतोऽम्बा दीपाली क्षणमपि कथञ्चित् सुविनया समुत्का तं दृष्ट्वा सफलमिह मेने स्वजननम् ॥ १२ ॥ स दत्त्वा व्याख्यानं प्रतिदिवसमावश्यक विधिं विधायाऽस्तालस्योऽपठदविरतं शास्त्रमनधम् । समायातानन्यानपि विनयनम्रान् समकरोत् वचोभिः स्पष्टार्थैरपि कठिनशास्त्रेषु निपुणः ॥ १३ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146