Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini

View full book text
Previous | Next

Page 26
________________ ( १८ ) तृतीय प्रकारेणापि लक्षणमाह यादृच्छिकं च तथेति तथाविध व्युपत्ति शून्यं डित्थकपित्थादि रूपं यादृच्छिकं स्वेच्छया नाम क्रियते तदपि नामेत्यार्यार्थः॥ ॥स्थापनानिक्षेपस्वरूपवर्णनम् ॥ स्थापनालक्षणं च सामान्यत इदम् । यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादि कर्म तत् स्थापनेति क्रियतेऽल्पकालं च॥२ इति विनेयानुग्रहार्थमत्रापि व्याख्या। तु शब्दो नामलक्षण स्थापनालक्षणस्य भेदसूचकः सचासावर्थश्च तदर्थो भावेंद्रभावावश्यकादि लक्षणस्तेन वियुक्तं रहितं यदस्तु तदभिप्रायेण भावेंद्रायभिप्रायेण क्रियते स्थाप्यते तत् स्थापनेति संबंधः । किं विशिष्टं यदित्याह। यच्च तत्करणि तेन भावेंद्रादिना सहकरणि सादृश्यं तस्य तत्करणि तत्सदृशमित्यर्थः । च शब्दात्तदकरणि चाक्षादि वस्तु गृह्यते अतत्सदृशमित्यर्थः । किं पुनस्तदेवं भृतं वस्त्वित्याह । लेप्यादि कति । लेप्यपुत्तलिकादीत्यर्थः। आदि शब्दात् काष्ठपुत्तलिकादि गृह्यते । अक्षादि अनाकारं च । कियंतं कालं तत् क्रियत इत्याह । अल्पः कालो यस्य तदल्पकालमित्वरकाल मित्यर्थः । च शब्दाद्यावत्काथकं शाश्वतप्रतिमादि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124