________________
( १८ ) तृतीय प्रकारेणापि लक्षणमाह यादृच्छिकं च तथेति तथाविध व्युपत्ति शून्यं डित्थकपित्थादि रूपं यादृच्छिकं स्वेच्छया नाम क्रियते तदपि नामेत्यार्यार्थः॥
॥स्थापनानिक्षेपस्वरूपवर्णनम् ॥ स्थापनालक्षणं च सामान्यत इदम् । यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादि कर्म तत् स्थापनेति क्रियतेऽल्पकालं च॥२ इति
विनेयानुग्रहार्थमत्रापि व्याख्या। तु शब्दो नामलक्षण स्थापनालक्षणस्य भेदसूचकः सचासावर्थश्च तदर्थो भावेंद्रभावावश्यकादि लक्षणस्तेन वियुक्तं रहितं यदस्तु तदभिप्रायेण भावेंद्रायभिप्रायेण क्रियते स्थाप्यते तत् स्थापनेति संबंधः । किं विशिष्टं यदित्याह। यच्च तत्करणि तेन भावेंद्रादिना सहकरणि सादृश्यं तस्य तत्करणि तत्सदृशमित्यर्थः । च शब्दात्तदकरणि चाक्षादि वस्तु गृह्यते अतत्सदृशमित्यर्थः । किं पुनस्तदेवं भृतं वस्त्वित्याह । लेप्यादि कति । लेप्यपुत्तलिकादीत्यर्थः। आदि शब्दात् काष्ठपुत्तलिकादि गृह्यते । अक्षादि अनाकारं च । कियंतं कालं तत् क्रियत इत्याह । अल्पः कालो यस्य तदल्पकालमित्वरकाल मित्यर्थः । च शब्दाद्यावत्काथकं शाश्वतप्रतिमादि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com