________________
( १७ )
पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ विनेयानुग्रहार्थ मेतद्व्याख्या - यद्वस्तुन इंद्रादिरभिधान मिंद्र इत्यादि वर्णावली मात्र मिदमेव ' आवश्यक' लक्षण वर्णचतुष्टयावली मात्रं यत्तदोर्नित्याभिसंबंधात् तन्नामेति संटकः । अथ प्रकारांतरेण नाम्नो लक्षणमाह स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति तदपि नाम यत् कथं भूतमित्याह अन्यश्चासावर्थश्चान्यार्थो गोपालदारकादि लक्षणः तत्र स्थितं अन्यत्रेद्रादावर्थे यथार्थत्वेन प्रसिद्धं तदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः अतएवाह तदर्थ निरपेक्ष इति तस्येंद्रादिनाम्नोर्थः परमैश्वर्यादि रूपस्तदर्थः सचासावर्थश्चेति वा तदर्थस्तस्य निरपेक्षं गोपालदारकादौ तथा तदर्थस्याभावात् पुनः किं भूतं तदित्याह पर्यायानभिधेयमिति शक्रपुरंदरादीनां गोपालदारकादयोहींद्रादिशब्दैरुच्यमाना
पर्यायाणां
अनभिधेयमवाच्यं अपि
शचीपत्यादिखि शक्रपुरंदरादिशब्देनाभिधीयते अतस्तन्नामापि नाम तद्वतोरभेदोपचारात पर्यायानभिधेयमित्युच्यते च शब्दान्नाम्न एव लक्षणान्तरसूचकं शचीपत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com