Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini

View full book text
Previous | Next

Page 102
________________ ( ९२ ) त्याद्यपि भावनीयं । सरूपाणामेकशेष एकविभक्तावित्यनेन सूत्रेण समानरूपाणामकविभक्तियुक्तानां पदानामेकशेषः समासो भवति सति समासे एकः शिष्यतेऽन्ये तु लुप्यते यश्च शेषोवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोर्खप्तानां चार्थे वर्तते । अथ एकस्य लुप्तस्यात्मनश्वार्थे वर्तमानात्तस्मात् द्विवचनं भवति यथा पुरुषश्च पुरुषश्चेति पुरुषो । द्रयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाबहुवचनं यथा पुरुषश्च३ पुरुषाः एवं बहूनां लुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च ४ पुरुषा इति जातिविवक्षायां तु सर्वत्रैक वचनमपि भावनीयमितः सूत्रमनुश्रियते-जहा एगो पुरिसोति-यथैकः पुरुषः एकवचनांतपुरुषशब्द इत्यर्थः एकशेषे समासे सति बह्वर्थवाचक इतिशेष:-तहा बहवे पुरिसत्ति-तथा बहवः पुरुषाः बहुवचनांत पुरुषशब्द इत्यर्थः एकशेष समासे सति बह्वर्थवाचक इतिशेषः यथाचैकशेष समासे बहुवचनांत पुरुषशब्दः बह्वर्थवाचक स्तथैकवचनांतोपीति न कश्चिद्विशेष एतदुक्तं भवति यदा पुरुषश्च ३ इति विधाय एक पुरुषशब्दशेषता क्रियते तदा यथैकवचनांतः पुरुषशब्दो बहान, वक्ति तथा बहुवचनांतोपि यथा बहुवचनांतस्तथैकवचनांतोपीति न कश्चिदेकवचनांतत्वबहुवचनांतत्वयोविशेष केवलं जातिीववक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति एवं कार्षापणशाल्यादिष्वपि भावनीयं । अयं च समासो द्वंद्वविशेष एवोच्यते केवलमेकशेष तत्र विधीयते इत्येतावता पृथगुपात इति लक्ष्यते तत्त्वं तु सकलव्याकरणवेदिनो विदंतीत्यलमति विजृमितेन । गतं सामासिकं । से किं तं तद्धितए इत्यादि - तद्धिताजातं तद्धितर्ज इह तद्धितशब्देन तद्धितमाप्तिहेतुभूतोर्थों गृह्यते ततो यत्रापि तुन्नाए तंतुवाए इसादौ तद्धितासयो न दृश्यते तत्रापि तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्धितजं सिद्धं भवतिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124