Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 459
________________ महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञ हैमलघु कर्तृकर्मणोरभावात् प्रथममेव त्र्यं भवति । साध्यरूपत्वाच्च सङ्ख्यायोगो नास्तीति औत्सर्गिकमैकवचनमेव भवति । पाकः पाकौ पाकाः । पाको वर्त्तते । पाकं करोतीत्यादौ चानव्ययकृदभिहितो भावो द्रव्यवत् प्रकाशते इति सङ्ख्यया लिङ्गेन कारकैश्च युज्यते । त्यादिनेवाव्ययेनाभिहितस्त्वसत्त्वरूपत्वान्न युज्यते । कृत्वा । कर्तुम् । उष्ट्रासिका आस्यन्ते हतशायिका शय्यन्ते इति बहुवचनं ५ कृदभिहितेनाभेदोपचाराद्भवतीति । काञ्चिदकर्मक धातूनामग्राहं दर्शयितुं वाक्यप्रकाशकारिकामाह लज्जासत्ता स्थितिजागरणं वृद्धिक्षय भयजीवितमरणं । शयनक्रीडारुचिदीत्यर्था धातव एते कर्मविमुक्ताः ॥ १ ॥ + अविवक्षितकर्मकोऽप्यकर्मक एव । पच्यते १० । अकर्मकोऽप्युपसर्गवशात् सकर्मकतामेति । १० अनुभूयते सुखं साधुना । अन्वभावि, अन्वभविषाताम् अन्वभाविषाताम् ५ ॥ ८ ॥ लज्जासत्तेत्यादि स्पष्टम् । येषां कर्त्रेकनिष्ठ एव व्यापारः फलं च ते अकर्मका इति तत्त्वम् । यथा लज्जते इत्यादि । ८३२ अविवक्षितकर्मकोऽपीति । यदुक्तम् 1 १५ 'धातोरर्थान्तरे योगात् धात्वर्थेनोपसङ्ग्रहात् । प्रैसिद्धेरै विवक्षातः कर्मिणोऽकर्मिका क्रिया' ॥ १ ॥ सकर्मकस्याप्यकर्मकत्वं भवतीत्यर्थः । तत्रार्थान्तरे योगो यथा भारं वहति गौरित्यत्र सकर्मकोपि वहति नदी, वहतीत्यत्राकर्मकः । धात्वर्थेनोपसङ्घहो यथा 'जीव प्राणधारणे' इत्यत्र धात्वर्थेनैव कर्मोपसंगृहीतमिति चैत्रो जीवतीत्यत्राकर्मकः, प्राणान् धारयतीत्यर्थः । प्रसिद्धेर्यत्र कर्मातिप्रसिद्धं तत्राकर्मकत्वं यथा 'वर्षति न परं मेघः क्षणदापि मृगाक्षि विप्रयोगे ते । प्रहरति न पञ्चवाणः केवलमबले निमेषोऽपि ॥१॥ यथा वा 'गर्जति शरदि न वर्षति वर्षति वर्षासु निःखनो मेघः' । जलं वर्षतीति प्रतीतमेव । अविवक्षात इति प्रयोक्तुर्निराकाङ्क्षत्वमविवक्षा यथा चैत्रः किमुदासीनस्तिष्ठति भुङ्क्ते पठति वेति क्रियामात्रे एव केनचिज्जिज्ञासिते चैत्रः पठतीत्यविवक्षितकर्मकोऽकर्मकः प्रयुज्यते किं पठतीति प्रष्टुर्जिज्ञासाया अभावात् । अकर्मकोऽपीत्यादि स्पष्टम् । उक्तं च "सोपसर्गोऽन्यार्थवृत्तिरैन्तर्भूतक्रियान्तरः । निगैन्तोऽन्तैर्णिगर्थश्च पञ्चोपायः सकर्मकः ॥' २० २५ सोपसर्गो यथा भवतिरकर्मकोऽप्यनुभवति सुखमिति सकर्मकः | १ | अन्यार्थवृत्तिर्यथा नदी वहतीत्यत्र वहतिरकर्मकोऽपि भारं वहति इत्यत्र सकर्मकः । २ । अन्तर्भूतक्रियान्तरो यथा जिनो जयति इत्यत्र जयतिरकर्मकोऽपि शत्रून् जयतीत्यत्र सकर्मकः, अभिभवतीति क्रियान्तरस्य अन्तर्भूतत्वात् ॥ ३ ॥ णिगन्तो यथा आसयति मैत्रम् । ४ । अन्तर्णिगर्थो यथा नमति पल्लवो वातेनेत्यत्र नमिरकर्मकोऽपि अनंसीद्दण्डं दण्डीत्यत्र सकर्मकः अनीनमदित्यर्थः । यथा वा परिणमति मृदं कुलालः परिणमयतीत्यर्थः ॥ ५ ॥ ८ ॥ अथ कर्मकर्त्तरिप्रक्रियामाह । सूत्रम् ३० एकधात कर्मक्रिययैा कर्मक्रिये ॥ ९ ॥ [ सि० ३।४।८६ ] एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन्क३३ र्त्तरि कर्मकर्तुरूपे धातोर्निक्यात्मनेपदानि स्युः । उक्तं च 'यत्र कर्मैव कर्तृत्वं याति कर्ता तु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636