________________
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञ हैमलघु
कर्तृकर्मणोरभावात् प्रथममेव त्र्यं भवति । साध्यरूपत्वाच्च सङ्ख्यायोगो नास्तीति औत्सर्गिकमैकवचनमेव भवति । पाकः पाकौ पाकाः । पाको वर्त्तते । पाकं करोतीत्यादौ चानव्ययकृदभिहितो भावो द्रव्यवत् प्रकाशते इति सङ्ख्यया लिङ्गेन कारकैश्च युज्यते । त्यादिनेवाव्ययेनाभिहितस्त्वसत्त्वरूपत्वान्न युज्यते । कृत्वा । कर्तुम् । उष्ट्रासिका आस्यन्ते हतशायिका शय्यन्ते इति बहुवचनं ५ कृदभिहितेनाभेदोपचाराद्भवतीति ।
काञ्चिदकर्मक धातूनामग्राहं दर्शयितुं वाक्यप्रकाशकारिकामाह
लज्जासत्ता स्थितिजागरणं वृद्धिक्षय भयजीवितमरणं । शयनक्रीडारुचिदीत्यर्था धातव एते कर्मविमुक्ताः ॥ १ ॥
+ अविवक्षितकर्मकोऽप्यकर्मक एव । पच्यते १० । अकर्मकोऽप्युपसर्गवशात् सकर्मकतामेति । १० अनुभूयते सुखं साधुना । अन्वभावि, अन्वभविषाताम् अन्वभाविषाताम् ५ ॥ ८ ॥
लज्जासत्तेत्यादि स्पष्टम् । येषां कर्त्रेकनिष्ठ एव व्यापारः फलं च ते अकर्मका इति तत्त्वम् । यथा लज्जते इत्यादि ।
८३२
अविवक्षितकर्मकोऽपीति । यदुक्तम्
1
१५
'धातोरर्थान्तरे योगात् धात्वर्थेनोपसङ्ग्रहात् । प्रैसिद्धेरै विवक्षातः कर्मिणोऽकर्मिका क्रिया' ॥ १ ॥ सकर्मकस्याप्यकर्मकत्वं भवतीत्यर्थः । तत्रार्थान्तरे योगो यथा भारं वहति गौरित्यत्र सकर्मकोपि वहति नदी, वहतीत्यत्राकर्मकः । धात्वर्थेनोपसङ्घहो यथा 'जीव प्राणधारणे' इत्यत्र धात्वर्थेनैव कर्मोपसंगृहीतमिति चैत्रो जीवतीत्यत्राकर्मकः, प्राणान् धारयतीत्यर्थः । प्रसिद्धेर्यत्र कर्मातिप्रसिद्धं तत्राकर्मकत्वं यथा
'वर्षति न परं मेघः क्षणदापि मृगाक्षि विप्रयोगे ते । प्रहरति न पञ्चवाणः केवलमबले निमेषोऽपि ॥१॥
यथा वा 'गर्जति शरदि न वर्षति वर्षति वर्षासु निःखनो मेघः' । जलं वर्षतीति प्रतीतमेव । अविवक्षात इति प्रयोक्तुर्निराकाङ्क्षत्वमविवक्षा यथा चैत्रः किमुदासीनस्तिष्ठति भुङ्क्ते पठति वेति क्रियामात्रे एव केनचिज्जिज्ञासिते चैत्रः पठतीत्यविवक्षितकर्मकोऽकर्मकः प्रयुज्यते किं पठतीति प्रष्टुर्जिज्ञासाया अभावात् । अकर्मकोऽपीत्यादि स्पष्टम् । उक्तं च
"सोपसर्गोऽन्यार्थवृत्तिरैन्तर्भूतक्रियान्तरः । निगैन्तोऽन्तैर्णिगर्थश्च पञ्चोपायः सकर्मकः ॥'
२०
२५ सोपसर्गो यथा भवतिरकर्मकोऽप्यनुभवति सुखमिति सकर्मकः | १ | अन्यार्थवृत्तिर्यथा नदी वहतीत्यत्र वहतिरकर्मकोऽपि भारं वहति इत्यत्र सकर्मकः । २ । अन्तर्भूतक्रियान्तरो यथा जिनो जयति इत्यत्र जयतिरकर्मकोऽपि शत्रून् जयतीत्यत्र सकर्मकः, अभिभवतीति क्रियान्तरस्य अन्तर्भूतत्वात् ॥ ३ ॥ णिगन्तो यथा आसयति मैत्रम् । ४ । अन्तर्णिगर्थो यथा नमति पल्लवो वातेनेत्यत्र नमिरकर्मकोऽपि अनंसीद्दण्डं दण्डीत्यत्र सकर्मकः अनीनमदित्यर्थः । यथा वा परिणमति मृदं कुलालः परिणमयतीत्यर्थः ॥ ५ ॥ ८ ॥ अथ कर्मकर्त्तरिप्रक्रियामाह । सूत्रम्
३०
एकधात कर्मक्रिययैा कर्मक्रिये ॥ ९ ॥ [ सि० ३।४।८६ ]
एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन्क३३ र्त्तरि कर्मकर्तुरूपे धातोर्निक्यात्मनेपदानि स्युः । उक्तं च 'यत्र कर्मैव कर्तृत्वं याति कर्ता तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org