________________
८३१
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भावकर्मणोः प्रक्रिया
ये नवा ॥६॥ [सि० ४।२।६२] खनिसनिजनां ये कृित्या वा स्यात् । खायते-खन्यते । सायते-सन्यते । जायते-जन्यते । तनः क्ये (४।२।६३) आ वा स्यात् । तायते-तन्यते । 'अमो कम्यमिचमः' (४।२।२६) इति वा दीर्घे, अशामि-अशमि अशामिषाताम्-अशमिषाताम् । ण्यन्तत्वाभावे ॥६॥ __ 'ये' एषामन्तस्य आ वा स्यात् । खायते इति । एवं चाखायते चङ्खन्यते । सासायते संसन्यते ।५ जाजायते जंजन्यते । अखानि अखनिषाताम् अखनिषत । असानि असनिषाताम् असनिषत । 'न जनवधः' (४।३।५४ ) इति वृद्धिनिषेधे अजनि अजनिषाताम् अजनिषत । इत्यादि । 'तन०' स्पष्टम् । अतानि अतनिषाताम् अतनिषत । अमो कम्यमीत्यादि स्पष्टम् । 'स्वरग्रह.' ( ३।४।६९) इति वा बिटि इटि च रूपपद्धतिः । अशमयिषातामिति । एवं शामिष्यते शमिष्यते । शमयिष्यते । अशामिष्यत अशमिष्यत अशमयिष्यत । शामीषीष्ट शमिषीष्ट शमयिषीष्ट । शामिता शमिता १० शमयिता । एवं अरामि-अरमि अरामिषाताम्-अरमिषाताम्-अरमयिषाताम् इत्यादि । एवं अदामि अदमि । अगामि-अगमि । 'ज्वलह्वल.' (४।२।३२) इति हखे नम्यते नाम्यते । अनामि-अनमि । एवं सर्वेषाममन्तानां ण्यन्तानां प्रक्रिया । अकम्यमिचम इति किम् ? काम्यते । अकामि । आम्यते । आमि । आचाम्यते आचामि । ण्यन्तत्वाभावे इति ॥ ६ ॥ अत्र सूत्रम्
मोऽकमियमिरमिनमिगमिवम्याचमः ॥७॥ [सि० ४।३१५५] १५ कम्यादिवर्जमान्तस्य धातोणिति कृति औ च वृद्धिर्न स्यात् । अशमीति । निषेधे अकामि । विश्रमेर्वा (४।३।५८) व्यश्रामि-व्यश्रमि ॥७॥
'मोऽक.' णिति कृति यथा शमः तमः दमः शमकः तमकः दमकः । शमी तमी दमी । जौ यथा अशमि अतमि अदमि । म इति किम् ? पाठः पाठकः अपाठि । कम्यादिवर्जनं किम् ? कामः कामुकः अकामि । यामः यामकः अयामि । रामः रामकः अरामि । नामः नामकः अनामि ।२० आगामुकः आगामि । वामः वामकः अवामि । आचामः आचामकः आचामि । आचम इति किम् ? चमः विचमः चमकः विचमकः अचमि (व्यचमि)। अन्ये तु सामान्येन निषेधमिच्छन्ति । चामः विचामः । इत्यादि । कथमामः आमकः आमि ? 'अमण रोगे इत्यस्य भविष्यति । भौवादिकस्य त्वमेः अमः अमकः । कृबावित्येव शशाम । 'विश्रा' विपूर्वस्य अमेणिति कृत्प्रत्यये ौ च परे वा वृद्धिर्न भवति । विश्रामः विश्रमः । सूर्यविश्रामभूमिः । वीति किम् ? श्रमः श्रमकः ॥ ७ ॥ २५
ख्णिमोर्वा ॥८॥[सि० ४।४।१०६] लभः खरान्नोऽन्तो वा स्यात् औ रुणमि च । अलामि अलम्भि । 'भञ्जनौं वा' (४।२। ४८) लोपः स्यात् । अभाजि-अभञ्जि ।
'जि' नोऽन्ताभावे वृद्धौ अलाभि पक्षे अलम्मीति । ख्णम्प्रत्यये लाभं २ लंभं २ । भले० भञ्जरुपान्त्यनकारस्य बौ परे लुग्वा भवति । नकारस्य लुक् पक्षे उपान्त्यवृद्धिः।। भावो धात्वर्थस्तस्यैकत्वादात्मनेपदैकवचनम् । चैत्रेण भूयते १० ।
अकर्मकादविवक्षितकर्मकाच्च भावे आत्मनेपदादिकं भवतीति प्रागुक्तम् । ततो भावस्वरूपं दर्शयति । भावो धात्वर्थ इत्यादि । तथाहुः श्रीसूरयः। भावे च युष्मदस्मत्सम्बन्धिनिमित्तयोः ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org