________________
८३० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइति वृद्धौ । अकारि, अकारिषाताम्-अकृषाताम् , अकारिपत-अकृषत ५। चक्रे ६ । कारिषीष्टकृषीष्ट ७ । कारिता-कर्ता ८ । कारिष्यते-करिष्यते ९ । अकारिष्यत अकरिष्यत १० । ईय॑ञ्जनेऽयपि (४।३।९७) दीयते ॥४॥
'स्वर' स्वरान्तादित्यादि स्पष्टम् । भावना प्राग्वत् । स्वरान्तेषु आकारान्तधातूनां विशेषमाह । ५तत्र दासंज्ञकानां शिति क्यप्रत्यये दीयते इत्यादि स्पष्टम् । एवं दे दीयते । धीयते । गीयते । पीयते स्थीयते । षोंच सैं सीयते । मामाङ्मेडा मीयते । मातेनेच्छन्त्यन्ये । मायते । हाक् हीयते । हाको न भवति । हायते ॥४॥ अनोपयोगि सूत्रम्
आत ऐः कृऔ॥५॥ [सि० ४।३।५३ ] १० आदन्तस्य धातोणिति कृति औ च ऐः स्यात् । अदायि अदायिषाताम् । पक्षे इश्च स्थादः ।
अदिषाताम् ५ । ददे ६ । दायिषीष्ट-दासीष्ट ७ । दायिता-दाता ८ । दायिष्यते-दास्यते ९ । गृह्यते ४ । अग्राहि अग्राहिषाताम् अग्रहिषाताम् । अग्राहिवम् अग्राहिध्वम्-अग्रहीदम् । २। जगृहे ६ । ग्राहिषीष्ट-ग्रहीषीष्ट । ग्राहिषीढम्-अहिषीदम् २ । ७ । ग्राहिता-ग्रहीता ८ । ग्राहिष्यते
ग्रहीष्यते ९ । अदर्शि अदर्शिषाताम्-अदृक्षाताम् ५। ददृशे ६ । दर्शिषीष्ट दृक्षीष्ट ७ । दर्शिता१५द्रष्टा । दर्शिष्यते-द्रक्ष्यते ९ । 'त्रिणवि घन्' (४।३।१०१)। अघानि अघानिषाताम् । 'अद्यतन्यां
वा त्वात्मने (४॥४॥२२) इति वधादेशे, अवधि अवधिषाताम-अहसाताम् ५ । जघ्ने ६ । घानिषीष्ट । 'हनो वध आशिष्यो ' (४।४।२१)। वधिषीष्ट ७ । घानिता-हन्ता ८ । घानिष्यतेहनिष्यते ९॥५॥
'आत. णिति कृतीति । दायः धायः । दायकः धायकः । शतं दायी गोदायो ब्रजति । बौ २० इति निरनुबन्धग्रहणे सामान्यग्रहणमिति बिबिटोरुभयोरपि ग्रहणम् । ततश्च अदायि इत्यादि स्पष्टम् । एवमधायि अगायि अमायि अपायि अहायि इत्यादि । अदिषातामिति । एवमस्थायि अस्थायिषाताम्-अस्थिषाताम् । अपाचि अपाचिषाताम्-अपाचयिषाताम् । पाचिषीष्ट-पाचयिषीष्ट । पाचिता पाचयिता । पाचिष्यते-पाचयिष्यते इति णिगन्तत्वेन खरान्ता उक्ताः । स्वाभाविकस्वरान्ता अप्येवम् । अचायि-अचायिषाताम्-अचेषाताम् चायिषीष्ट । चायिता चेता । २५चायिष्यते चेष्यते । एवं शायिष्यते शयिष्यते । स्ताविष्यते-स्तोष्यते । लाविष्यते-लविष्यते । तारिष्यतेतरिष्यते-तरीष्यते साधुना भवाब्धिः । जागुरकर्मकत्वाद्भावें मिचि बिटि च जागुर्बिणवीति वृद्धौ चैत्रेण अजागारि जागारिषीष्ट-जागरीषीष्ट । जागारिता-जागरिता । जागारिष्यते जागरिष्यते । सकर्मकत्वे तु चैत्रेण मैत्रः प्रत्यजागारि प्रत्यजागारिषाताम् प्रत्यजागरिषाताम् प्रत्यजागारिषत-प्रत्यजागरिषत ।
प्रतिजागारिष्यते २ । णिगन्तत्वे तु चैत्रेण मैत्रोऽजागारि अजागरयिषाताम् अजागरिषाताम् । ३० जागरयिता जागरिता । जागरयिष्यते २ । बेर्णिगा व्यधानाद्वृद्धिर्न भवति इति स्वरान्तानां
स्यसिजादिषु बिद्विकल्पो दर्शितः । अथ ग्रहदशहनां दर्शयति । ग्रह गृह्यते इत्यादि । अग्रहीषातामित्यादौ 'गृहोऽपरोक्षायां०' (४।४।३४) इति दीर्घः । 'न जनवधः' (४।३।५४ ) इति वृद्धिनिषेधे
अवधि अवधिषातामिति । अहसातामिति । 'हनः सिच्' इति सिचः कित्त्वात् 'नो व्यञ्जनस्य.' ३४ (४।२।४५) इति नलुक् ॥ ५ ॥ पुनः केषाश्चिद्विशेषमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org