________________
८२९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भावकर्मणोः प्रक्रिया अयाचि सम्भोगम् । गोपी हावमकार्यत भावश्चैनामनन्तेन ४ गोपी विजनं निन्ये इति न्यादिः, रजनिमजागरि इति ण्यन्तनिःकर्मा, मदमगमि इति गत्यर्थः । एषु त्रिषु मुख्यं कर्म गोपी । सम्भोगमयाचि इति दुह्यादि । अत्र गोपी गौणं कर्म अन्यत्र यथारुचीति वचनात् । गोपी हावमकार्यत । गोपी भावोऽकार्यत इति गौणे मुख्ये च प्रत्ययोत्पत्तिः । अनन्तेनेति सर्वत्र योज्यमित्यादि सोपपत्तिकमेतव्याख्यानं च कारकप्रक्रियायां 'कर्तृाप्यं कर्म' इत्यादिसूत्रव्याख्यानेऽभिहितमिति ततो (पृष्ठ २१५)५ ज्ञेयम् ॥ २॥ अथाशितिविभक्तौ प्रक्रियामाह
भावकर्मणोः ॥३॥ [सि० ३।४।६८] सर्वसाद्धातो वकर्मविहितेऽद्यतन्यास्ते जिच् स्यात् तलुक् च । अपाठि अपठिषाताम् अपठिपत ५ । पेठे ६ । पठिषीष्ट ७ । पठिता ८ । पठिष्यते ९ । अपठिष्यत १० । ऋतो 'रिः१० शक्याशीर्ये (४।३।११०)। क्रियते १ । क्रियेत २ । क्रियताम् ३ । अक्रियत ४।
अकारि ॥३॥
_ 'भाव०' सर्वस्मादित्यादि । तत्र भावे यथा आसि अशायि भवता । कर्मणि यथा अकारि कटः । अपाच्योदनश्चैत्रेण । अद्यतन्या द्विवचनादौ सिजागमे इडागमे च रूपपद्धतिः । अपाठि ग्रन्थश्चैत्रेण । अपठिषातां ग्रन्थौ चैत्रेण । अपठिषत ग्रन्थाश्चैत्रेण । ग्रन्थं प्रति चैत्रोऽन्यो वा वक्ति हे ग्रन्थ मया १५ चैत्रेण वा त्वं अपठिष्ठाः । हे ग्रन्थौ युवामपठिषाथाम् । हे ग्रन्था यूयमपठिध्वम् अपठिट्सम् अपठिड्वम्। अथ ग्रन्थश्चैत्रमन्यं वा प्रत्याह । हे चैत्र त्वया अन्येन वा अहमपठिषि । आवामपठिष्वहि । वयमपठिष्महि । एवं सर्वासु विभक्तिषु कर्मतापन्नान्यदर्थादित्रयभावना एकद्विबहुवचनेषु कार्या ५ । चैत्रेण ग्रन्थः पेठे । ग्रन्थौ पेठाते । ग्रन्थाः पेठिरे । हे ग्रन्थ त्वं पेठिषे युवां पेठाथे यूयं पेठिध्वे ३ । अन्थोऽहं पेठे आवां पेठिवहे वयं पेठिमहे ६ । ग्रन्थश्चैत्रेण पठिषीष्ट । ग्रन्थौ पठिषीयाष्टाम् । ग्रन्थाः२० पठिषीरन् । हे ग्रन्थ त्वं चैत्रेण पठिषीष्टाः युवां पठिषीयाष्ठाम् यूयं पठिषीध्वम् ३ ग्रन्थोहं चैत्रेण पठिषीय आवां पठिषीवहि वयं पठिषीमहि ७ । चैत्रेण ग्रन्थः पठिता ग्रन्थौ पठितारौ ग्रन्थाः पठितारः । हे ग्रन्थ त्वं चैत्रेण पठितासे युवां पठितासाथे यूयं पठिताध्वे । ग्रन्थोऽहं चैत्रेण पठिताहे आवां पठितास्वहे वयं पठितास्महे ८ । चैत्रेण ग्रन्थः पठिष्यते ग्रन्थौ पठिष्येते ग्रन्थाः पठिष्यन्ते । हे ग्रन्थ त्वं पठिष्यसे युवां पठिष्येथे यूयं पठिष्यध्वे । ग्रन्थोऽहं चैत्रेण पठिष्ये आवां पठिष्यावहे २५ वयं पठिष्यामहे ९। चैत्रेण ग्रन्थोऽपठिष्यत । ग्रन्थौ अपठिष्येताम् ग्रन्था अपठिष्यन्त । हे ग्रन्थ त्वं चैत्रेणापठिष्यथाः युवामपठिष्यथाम् यूयमपठिष्यध्वम् । ग्रन्थोऽहं चैत्रेणापठिष्ये आवामपठिष्यावहि वयमपठिष्यामहि १० । ऋकारान्तधातूनां कार्यविशेषमाह । ऋत इति ऋकारान्तधातूनामित्यर्थः । सूत्रम् 'रिः शक्याशीर्ये (४।३।११०) शक्ये आशीर्ये च परे ऋकारस्थाने रिरित्ययमादेशः स्यात् । क्रियते आद्रियते व्याप्रियते ह्रियते ॥ ३ ॥ अथ केषाञ्चिद्धातूनां कासुचिद्विभक्तिषु विशेषमाह खरग्रहहन्भ्यः स्यसिजाशीः श्वस्तन्यां मिड् वा ॥४॥
[सि० ३।४।६९] खरान्तागृहादेश्च स्वसिजाशीःश्वस्तनीषु बिड् वा स्यात् । 'नामिनोऽकलिहले.' (४।३।५१) ३४
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org