________________
८२८
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
XXXX..XX.....XXXXCO
अथेति व्यक्तम् । अथ कर्मायुक्तौ प्रत्ययान् दर्शयति । सूत्रम्
तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलर्थाश्च ॥ १ ॥ [ सि० ३।३।२१ ] तदात्मनेपदं कृत्यक्तखलर्थाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच्च ५ भावे स्युः ॥ १ ॥
'तत्सा०' अविवक्षितकर्मकादिति । सकर्मका अपि अविवक्षितकर्माणः कर्त्रेकनिष्ठव्यापारा अकका भवन्ति । तेनैषां भावेऽपि प्रयोगः । क्रियते भवता । मृदु पच्यते भवता । पश्च वारान् भुज्यते भवता । 'कालाध्वभावदेशं वा' (२।२।२३ ) इत्यादिना कालाध्वभावदेशानां कर्मसंज्ञया अकर्मकत्वस्य च विधानात्तद्योगे कर्मणि भावे चात्मनेपदादीनि भवन्ति । तत्र कर्मणि मास आस्यते, क्रोशो १० गुडधानादिभिर्भूयते, गोदोहः सुप्यते । भावे मासमास्यते क्रोशमधीयते ओदनपाकं स्थीयते कुरून् ॥ १ ॥
अथात्र शिति विभक्तौ प्रत्ययान्तरमाह
२०
X......XXX...•* *••* *•* ̈ ̈*XXXX
अथ भावकर्मणोः प्रक्रिया
क्यः शिति ॥ २ ॥ [ सि० ३।४।७० ]
सर्वस्माद्धातोर्भावकर्मविहिते शिति क्यः स्यात् । अत्र कर्मणि प्रत्ययविधानेनोक्तत्वात्कर्मणि १५ प्रथमा । कर्मापेक्षाण्यर्थवचनानि च ।
Jain Education International
प्रयोज्यकर्मण्यन्येषां ण्यन्तानामुक्तता मता ।
पठ्यते ग्रन्थः शिष्येण, पठ्येते ग्रन्थौ पठ्यन्ते ग्रन्थाः । पव्यसे त्वं पठ्ये अहम् || २ || ‘क्य०' सर्वस्मादित्यादि । तत्र भावे यथा शय्यते भवता । १ शय्येत २ शय्यताम् ३ अशय्यत ४ । भिद्यते कुसूलेन । कर्मणि यथा क्रियते कटः १ क्रियेत २ क्रियतां ३ अक्रियत ४ अक्रियेताम् अक्रियन्त कटाः ४ शितीति किम् ? बभूवे अकारि कटो भवता । अत्र प्रत्ययेनोक्ते कर्मणि का २५ विभक्तिर्भवतीति निर्णेतुमाह अत्रेत्यादि । स्पष्टम् । अथ द्विकर्मकानां धातूनां कतरत्कर्मप्रत्यये - नाभिधीयते के च धातवो द्विकर्माण इति निश्चेतुं साम्प्रदायिकं सार्द्धकारिकाद्वयमाह । नीहृ० गौणे० इत्यादि स्पष्टम् । प्रक्रियाकौमुद्यां तु न्यादीनामष्टानां गत्यर्थाकर्मणां णिगन्तानां मुख्यं कर्मोक्तं स्यात् । गौणं द्वादश दुहादीनाम् ॥ १ ॥ दुहि १ याचि २ प्रच्छि ३ रुधि ४ चि ५ ब्रू ६ भिक्षि ७ जि ८ अर्थि ९ शासि १० मन्ध्यर्थाः ११ दण्डि १२ । नी १ वहि २ ६ ३ ग्रह ४ कृषि ५ मुषि ६ कृ ७ पचि ८ द्विकर्माणः ॥ २ ॥ न्यादयो - ण्यन्तनिः कर्म - गत्यर्था मुख्यकर्मणि प्रत्ययं ३१ यान्ति । दुह्यादि गौणेऽन्ये तु यथारुचि ॥३॥ यथा निन्ये विजनम् अजागरि रजनिम् अगमि मदम्
नव कृिष ण्यन्ता दुहिब्रू प्रच्छिचिरुधिशास्वर्थाः । पचि-याचि-दण्डि-कृ-गृहि-मथि - जिप्रमुखा द्विकर्माणः ॥ १ ॥ गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । बुद्धिभक्ष्यार्थयोः शब्दकर्मणां च निजेच्छया ||
For Personal & Private Use Only
www.jainelibrary.org