________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भावकर्मणोः प्रक्रिया
८३३
1
नोच्यते । विक्यात्मनेपदं धातोरुक्तिः सा कर्मकर्त्तरि ॥१॥ अकारि । खरदुहो वा (३२४/९०) ञिच् । अकृत क्रियते करिष्यते वा कटः स्वयमेव । 'पचिदुहे:' ( ३|४|८७ ) अपाचि पच्यते पक्ष्यते वा ओदनः स्वयमेव । अदोहि दुग्धे अदुग्ध गौः स्वयमेवेत्यादि । केचित् निक्यौ न स्याताम् । अलमकृत अलं कुरुते कन्या स्वयमेव । ॥ ९ ॥
इति महोपाध्यायश्री कीर्त्तिविजयगणिशिष्योपाध्याय श्रीविनयविजयगणिविरचितायां हैमलघु प्रक्रियायामाख्यातप्रक्रिया समाप्ता ।
'एक०' पूर्वदृष्टयेति । पूर्वस्मिन्काले कर्मणः कर्मत्वावस्थायां दृष्टया क्रियया सहैका भिन्नेति सहार्थे तृतीया । तथेति यथा प्राविहितानि ततश्चाद्यतन्यामात्मनेपदे ते विच् त लुक् च शिति क्य इति सिद्धम् । अकार्षीत् कटं देवदत्तः । स एवं विवक्षति नाहमकार्ष किन्त्वकारि कटः स्वयमेव । स्वयंशब्दस्तृतीयार्थे करणकारके वर्त्तते । अत्र विशेषसूत्रम् । 'स्वर०' ( ३।४।९०) स्वरान्ताद्धातोर्दुहेश्वानन्तरोक्ते १० कर्त्तरि चिच् वा न भवति । यथा अकृत कटः स्वयमेव । एवमल विष्ट अलावि केदारः स्वयमेव । अदुग्ध अदोहि गौः स्वयमेव । क्रियते करिष्यते वेति । एवं क्रियमाणः कटः । चक्रे कटः स्वयमेव । अभेदि भिद्यते बिभिदे कुसूलः स्वयमेव । अभैत्सीत् अभिद्वा कुसूलं देवदत्तः । द्विधा भवन्तं द्वेधा अभवत् । स एवं विवक्षते नाहमभिदममैत्सं वा किन्तु स्वयमेवाभेदि । अत्र करोति कटम् भिनत्ति कुलमित्यादौ यैव कटादिकर्मणां निर्वृत्तिर्द्वधा भवनादिका क्रिया सैव सौकर्यादिविवक्षिते कर्तृ - १५ व्यापारे स्वातन्त्र्यविवक्षायां तस्मिन्नेव धातावकर्मिका च । एवं चाकर्मकत्वाद्भावेष्यात्मनेपदं भवति । क्रियते कटेन, भिद्यते कुसूलेन । एकधाताविति किम् ? पचत्योदनं चैत्रः । सिद्धत्योदनः स्वयमेव । नन्वत्र यथा धातुभेदस्तथा धातुभेदे क्रियाभेदोऽप्यस्तीति व्यावृत्तेर्व्यगवैकल्यम् । नैवम् । स्याद्वादाश्रयणादत्र धातुभेदे क्रियाभेदो नाश्रीयते । उभयत्र विलित्तिलक्षणा क्रियैकैवेति । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति । साधु स्थाली पचतीति करणाधिकरणक्रिययैकक्रिये मा भूत् । एकक्रिययेति किम् ? २० स्रवत्युकं कुण्डिका, स्रवत्युदकं कुण्डिकायाः । अत्र विसृजति निष्क्रामतीति क्रियाभेदात् । विसर्गो विसर्जनमात्रम् कुण्डिकाकर्तृकं । निष्क्रमणं तु विसर्गानन्तरं गमनमुदककर्तृकमित्यनयोर्भेदः । नन्वत्र विसृजत्युदकं कुण्डिका सा एवं विवक्षति नाहं विसृजामि किन्तु स्वयमेव निष्क्रामतीति विवक्षायां क्रियाभेदान्मा भूत् । परंतु यदा स्वयमेव विसृज्यते इति विवक्ष्यते तदा क्यादयः कुतो न भवन्तीत्यत्रोच्यते । शब्दशक्तिस्वाभाव्यात् स्वयमेव विसृज्यते इत्यस्य निष्क्रामतीत्ययमेवार्थः प्रतीयते इति । २५ एवं गलन्त्युदकं वलीकानि । गलत्युदकं वलीकेभ्य इत्यत्रापि मुनति पततीति क्रियाभेदान्नैकक्रियत्वम् । अकर्मक्रिय इति किम् ? देवदत्तेन भिद्यमानः कुसूल: पात्राणि भिनत्ति । अन्योन्यमाश्लिष्यतः, हन्त्यात्मानमात्मा । ननु भिद्यमानः कुसूल इत्यादौ व्यावृत्तेर्व्यङ्गवैकल्यम्, यथाऽत्राकर्मक्रियत्वं नास्ति, तथैकक्रियत्वमेकधातुत्वमपि नास्ति यतः प्रथमो भिद्धातुः देवदत्तकर्तृको द्वितीयः कुसूलकर्तृक इति साधनभेदात् क्रियाभेदो धातुभेदश्च । नैवम् । स्याद्वादाश्रयादत्रैवं भेदो नाश्रीयतेऽन्यथा सूत्रमिदं ३० निरवकाशं स्याद्यतोऽकारि कटः स्वयमेवेत्यादिष्वपि प्रथमः कृग् चैत्रकर्तृकः पश्चात्कटकर्तृकइति भेदोऽस्त्येवेति । एकस्य कर्मत्वं कर्तृत्वं च कथमिति चेदुच्यते सर्वमपि हि कर्म्म स्वव्यापारे स्वतन्त्र - तामनुभूय कर्तुर्व्यापारेण न्यत्कृतं सत्कर्मतामनुभवति । कर्तृव्यापाराविवक्षायां तु स्वापारतंत्र्यात् कर्तृत्वमस्या व्यावृत्तमेव । यदाहुः
१ यतः कटं करोतीत्यादिषु खव्यापारे जननादिलक्षणे कटादिकर्म स्वातन्त्र्यमनुभवति स्वातन्त्र्याच्च कर्तृत्वम् । है० प्रका० उत्त० १०५
Jain Education International
For Personal & Private Use Only
३४
www.jainelibrary.org