________________
८३४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
'निर्वादिषु तत्पूर्वमनुभूय स्वतश्रताम् । कञन्तराणां व्यापारे कर्म सम्पद्यते ततः ॥ १॥ 'निवृत्तप्रेषणं चैव स्वक्रियावयवे स्थितं । निवर्तमाने कर्मत्वे खे कर्तृत्वेऽवतिष्ठते' ॥ २ ॥ इति ।
केषाश्चिद्विशेषमाह । 'पचि०' (३।४।८७) अयमर्थः। पचिदुहिभ्यामेकधातौ कर्मस्थक्रियया पूर्वदृष्टयाऽकर्मिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे बिकयात्मनेपदानि स्युः । अपवाद५ विषयं मुक्त्वा । अकर्मिकयेति अकर्मकत्वे पूर्वेण सिद्धमप्यनूद्यते सूत्रारम्भात् । अनेन तु कर्मणि विधीयते । तात्र कर्मणीत्युच्यताम् । नैवम् । एवं कृते पचिदुह्योस्तक्रकौण्डिन्यन्यायेन सत्येव कर्मणि स्यात् , कर्मण्यसति पूर्वेणापि न स्यात् । अपाचि पच्यते ओदनः स्वयमेव । अदोहि दुग्धे अदुग्ध गौः स्वयमेव । दुग्धे इत्यत्र दुहेः किरादित्वात् क्यस्य निषेधः। सकर्मकत्वे उदुम्बरं फलं पचति
वायुः । अयमन्तभूतण्यों द्विकर्मकः । उदुम्बरात् फलं पाचयति वायुरित्यर्थः। ( उदुम्बरः) फलं १० पच्यते स्वयमेव । अपक्तोदुम्बरः फलं स्वयमेव । गां दोग्धि पयो गोपालकः । दुग्धे अदुग्ध अधुक्षत
गौः पयः स्वयमेव । दुहिपच्योः कर्मणि सति 'न कर्मणा बिच्' इति नित्यं प्रतिषेधः । असति कर्मणि तु 'स्वरदुहो वा' इति विकल्पः । अकर्मकस्य पूर्वेणैव सिद्धे सकर्मकार्थं वचनम् । अत्र चापवादसंग्राहिकां फक्किकामाह । कँचिदित्यादि (पृष्ठ ८३३) । तत्र बिच् निषेधे सूत्रम् 'न कर्मणा जिच्'
(३।४।८८) पचिदुहेः कर्मणा योगे कर्मकर्तरि बिच् न स्यात् । अपक्तोदुम्बरः फलं स्वयमेव । १५ अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् ? अपाच्योदनः स्वयमेव । अदोहि गौः पयः स्वयमेव ।
कर्मकर्तरीत्येव अपाच्युदुम्बरः फलं वायुना । अदोहि गौः पयो गोपालकेन । 'रुधः' (३।४।८९) अस्य कर्मकर्तरि बिच् न स्यात् । अरुद्ध गौः स्वयमेव । कर्मकर्तरीत्येव अरोधि गौर्गोपालेन । 'तपः कनुतापे च' (३।४।९१) तपेर्धातोः कर्मकर्तरि कर्तरि अनुतापे चार्थे निच न स्यात् । अनुतापग्रहणाद्भावे कर्मणि च । अन्ववातप्त कितवः स्वयमेव । कर्तरि अतप्त तपांसि साधुः। २०भावे अन्वतप्त चैत्रेण । कर्मणि अन्ववातप्त पापः पापेन कर्मणा । कत्रनुतापे चेति किम् ? अतापि पृथ्वी राज्ञा । "णिस्नुयात्मनेपदाकर्मकात्' (३।४।९२) ण्यन्ताद्धातोः स्तुश्रिभ्यां चात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि बिच् न स्यात् । येभ्यः कर्मण्यसत्यात्मनेपदं विधीयते ते आत्मनेपदाकर्मकाः । णिरिति निरनुबन्धग्रहणेन सामान्यग्रहणात् णिग् णिच् णिडां ग्रहणम् । णिग्
पचत्योदनं चैत्रः तं मैत्रः प्रायुत । अपीपचदोदनं चैत्रेण मैत्रः । पुनरोदनस्य सुकरत्वेन कर्तृत्वे २५ अपीपचतौदनः स्वयमेव । यदि वा स्वयं पच्यमानः ओदनः खं प्रायुत अपीपचतौदनः स्वयमेव ।
ओदनो विवक्षते नाहमात्मानमपीपचम् । नाहमात्मानं सिद्ध्यन्तमसीसिधम् । किं तर्हि स्वयमेवीदनोऽपीपचत असीसिधत इत्यर्थः । उभयत्र स्वयमेवापाचीत्यर्थः । णिच् अचूचुरत् गां चैत्रः । अचूचुरत गौः स्वयमेव । णि पुच्छमुरिक्षपति गौः उत्पुच्छयते गौः । अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे
उदपुपुच्छत् गां देवदत्तः । स एवं विवक्षते । नाहं गामुत्पुपुच्छे उदपुपुच्छत गौः स्वयमेव यद्वा ३० उत्पुच्छामकार्षीदिति णिचि उदपुपुच्छत् गां चैत्रः । उदपुपुच्छत गौः स्वयमेव । स्त्र प्रास्तावीद्गां
देवदत्तः । प्रास्त्रोष्ट गौः स्वयमेव । स्नुरित्यात्मनेपदाभावे इट् , नियमादात्मनेपदाभावे इडभावे 'धुड् ह्रस्वात्' (४।३।७०) इति सिजूलुकः परत्वेऽपि नित्यत्वादन्तरङ्गत्वाञ्च पूर्वमेव गुणस्ततश्च ह्रस्वाभावान्न सिज् लुक् । श्रि, उदशिश्रियत दण्डः स्वयमेव । आत्मनेपदाकर्मकः, व्यकार्षीत् सैन्धवं
चैत्रः वल्गयति स्मेत्यर्थः । व्यकृत सैन्धवः स्वयमेव । विकरोतिर्वल्गनेऽन्तर्भूतण्यर्थः कर्मस्थक्रियः। ३५ व्यकार्षीत् कटं चैत्रः । व्यकृत कटः स्वयमेव । आवधीत् गां गोपः । आहत गौः स्वयमेव । व्यता
१ स्वव्यापारे खातत्र्यातू कटादिकर्मणः कर्तृरूपादन्यो वरुटादि कर्ता कर्जन्तरं तस्य । २ निवृत्तकर्तृव्यापारम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org