________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भावकर्मणोः प्रक्रिया
८३५ प्सीत् पृथिवीं रविः । व्यतप्त पृथिवी स्वयमेव । बिच् निषेधात् बिड् भवत्येव । पाचिता । पाचिषीष्ट ओदनः स्वयमेव । प्रास्नाविष्ट प्रास्नाविषीष्ट गौः स्वयमेव । उच्छायिता उच्छायिषीष्ट दण्डः स्वयमेव । आधानिष्ट आधानिषीष्ट गौः स्वयमेव । पृथग्योगादुत्तरेण जिदप्रतिषेधो न भवति । 'भूषार्थसकिरादिभ्यश्च भिक्यौ' (३।४।९३) भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यश्चकारात् णिस्नुश्यात्मनेपदाकर्मकेभ्यश्च धातुभ्यः कर्मकर्त्तरि बिक्यौ न भवतः । निरुत्सृष्टानुबन्धो५ बिबिटो ग्रहणार्थः । भूषार्थ-अलमकार्षीत् कन्यां चैत्रः । अलमकृत कन्या स्वयमेव । एवमलङ्करिष्यते अलङ्कुरुते कन्या स्वयमेव । पर्यस्कार्षीत् कन्यां चैत्रः । पर्यस्कृत परिष्करिष्यते भूषयते कन्या स्वयमेव । अममण्डत् कन्यां चैत्र । अममण्डत मण्डयिष्यते मण्ड्यते कन्या स्वयमेव । भूषिमण्ड्योय॑न्तत्वेनैव निषेधे सिद्धे बिद्प्रतिषेधार्थ भूषार्थेषूदाहरणम् । अन्यथा पृथग्योगात् ण्यन्तद्वारा बिटप्रतिषेधो न स्यात् । किन्तु बिच एव । उदाहरणदर्शनात् चानयोभूषार्थद्वारा १० भिजिटोरुभयोरपि निषेधः प्रतीयत इति । सन्नन्त अचिकीर्षीत् कटं चैत्रः । अचिकीर्षिष्ट चिकीर्षिष्यते चिकीर्षते कटः स्वयमेव । अबिभित्सीत् कुसूलं चैत्रः । अबिभित्सिष्ट बिभित्सिष्यते बिभित्सते कुसूलः स्वयमेव । एवमवाकीष्ट अवकीर्षीष्ट अवकिरते पांसुः स्वयमेव । अगारीद्रासं चैत्रः । अगीष्ट गीर्षीष्ट गिरते । एवं न्यगीष्टं । निगीर्षीष्ट निगिरते ग्रासः स्वयमेव । दोग्धि गां पयो गोपः । दुग्धे गौः पयः स्वयमेव । कथमदोहि गौः स्वयमेव ? दुहेर्बिविकल्प उक्तः । अवो-१५ चत्कथां चैत्रः । अवोचत ब्रूते कथा स्वयमेव । अश्रन्थीन्मालां मालिकः । अश्रन्थिष्ट (श्रश्नीते) श्रन्थते माला स्वयमेव । अग्रन्थीत् ग्रन्थं विद्वान् । अग्रन्थिष्ट प्रश्नीते ग्रन्थते ग्रन्थः स्वयमेव । अन्थिग्रन्थी त्र्यादौ युजादौ वा, धातुपारायणे तु भ्वादिसत्कावपि । अनंसीद्दण्डं दण्डी । अनंस्त नमते दण्डः स्वयमेव । परिणमति मृदं कुलालः । परिणमते मृत्स्वयमेव । कृ ग दुह ब्रू श्रन्थ् ग्रन्थ् नम् इति किरादयः सप्त ७ । बहुवचनं शिष्टप्रयोगानुसरणार्थम् । णिस्नुश्यात्मनेपदानां बिच-२० प्रतिषेधः पूर्वसूत्रे उदाहृतः । बिट् त्वेषां पृथग्योगाद्भवत्येवेति चोक्तम् । क्यनिषेध उदाह्रियते । ण्यन्त, कारयते कटः स्वयमेव । चोरयते गौः स्वयमेव । उत्पुच्छयते गौः स्वयमेव । स्नु, प्रस्नुते गौः स्वयमेव । श्रि, उच्छ्रयते दण्डः स्वयमेव । आत्मनेपदाकर्मकः, विकुर्वते सैन्धवाः स्वयमेव । अन्ये तु णिस्नुश्यात्मनेपदाकर्मकेभ्यो बिटोऽपि प्रतिषेधमिच्छन्ति । तन्मते पाचयिता पाचयिष्यते ओदनः । प्रस्नोता प्रस्नोष्यते । उच्चयिता उच्छ्रयिष्यते । आहन्ता आहनिष्यते । ननु सुनमावकर्मको तत्कथमनयोर्कर्मस्थ-२५ क्रियत्वमित्यत्रोच्यते. नुनमोरन्तर्भूतण्यर्थत्वेन सकर्मत्वाद्वादेः कर्मकर्तृत्वम् । यत्र तु ण्यों नास्ति तत्र कर्तृतैव । यथा प्रस्नौति गौर्दोग्धुः कौशलेन, नमति पल्लवो वातेन । ननु कर्मस्थक्रियया एकाकर्मक्रिये कर्तरि बिक्यात्मनेपदानि स्युः, अत्र तु ण्यन्तानां प्रयोजकव्यापारः सन्नन्तानां चेच्छा कर्तृस्थैव क्रियेति विक्ययोः प्राप्तिरेव नास्ति, किं निषेधेन । उच्यते । प्रयोजकव्यापारस्येच्छायाश्च तदर्थत्वाकरणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यं तस्य च कर्मस्थत्वाणिसन्नन्तानामपि कर्मस्थक्रियत्वम् ।३० तथा ब्रूते कथेत्यत्र वचनं शब्दप्रकाशनफलत्वात् उपाध्यायेनोक्तः करोतीतिवत्प्रेरणार्थत्वाद्वा कर्मस्थक्रियारूपम् । अयं भावः । यथोपाध्यायेनोक्तः करोतीत्यत्र वचधातोः प्रेरणार्थत्वं तथा अवोचत्कथां कोऽर्थः प्रेरयामास । तथा च प्रेरणा कथानिष्ठेति कर्मस्थक्रियत्वं स्फुटमेवेति । भूषाक्रियाणां च भूषाफलं शोभाख्यं कर्मणि दृश्यते इति कर्मस्थक्रियत्वमेवमन्यत्रापि भावनीयम् । 'करणक्रियया कचित्' (३।४।९४) एकधातौ पूर्वदृष्टया करणस्थया क्रियया एका कर्मक्रिये कर्तरि भिक्यात्मने-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org