________________
८३६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपदानि क्वचिद्भवन्ति । परिवारयन्ति कण्टकैः पुरुषा वृक्षं तत्र पुरुषा विवक्षन्ति न वयं कण्टकैवृक्षं परिवारयामः किन्तु कण्टकाः स्वयमेव वृक्षं परिवारयन्ते । अत्र दृढत्वप्रौढत्वादिधर्मेण स्वातव्यविवक्षया करणस्य कर्तृत्वम् । सर्वाण्यपि हि कारकाणि क्रियायां स्वव्यापारे स्वातच्यमनुभूयैव कर्तृव्यापारतिरस्कृतानि कर्मकरणादिव्यपदेशं लभन्ते इति । अयं च लक्ष्यानुसारेण विधिर्भवति न तु ५सार्वत्रिक इति कचिदित्युक्तम् । तेन साध्वसिश्छिनत्तीत्यादौ स्वातव्यविवक्षया कर्तृत्वे सत्यपि चिक्यात्मनेपदानि न भवन्तीति । तथा मूलफकिकायां (पृष्ठ ८३३) कैंचिद्हणसामर्थ्यात् कचित् कव॒क्तावपि भिक्यात्मनेपदानि भवन्ति । सूत्रम् , 'तपेस्तपःकर्मकात्' (३।४।८५) तपेर्धातोरर्थान्तरवृत्तित्वेन तपःकर्मकाकर्तरि बिक्यात्मनेपदानि भवन्ति तथा [ यथाविहितानीत्यर्थः] । तप्यते तपांसि साधुः । तेपे तपांसि साधुः । तपिरत्र करोत्यर्थः । बिच्तुः “तपः१० कत्रनुतापे" च (३।४।९१) इति निषेधान्न भवति । अन्वतप्त तपः साधुः । तपेरिति किम् ? कुरुते तपांसि साधुः । तप इति किम् ? उत्तपति सुवर्णं सुवर्णकारः । कर्मेति किम् ? तपांसि साधु तपन्ति दुःखयन्तीत्यर्थः । 'सृजः श्राद्धे विक्यात्मने तथा' (३।४।८४) सृजो धातोः श्रद्धावति कर्तरि चिक्यात्मनेपदानि भवन्ति, यथा विहितानि । असर्जि मृज्यते स्रक्ष्यते मालां
धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् । सृजति सक्ष्यते मालाम् (मालिकः)॥९॥ १५ अत्र च प्रक्रियायां अलकुरुते कन्या स्वयमेवेत्युदाहरणं द्वितीयवृत्तेः पर्यन्तमङ्गलार्थ वृत्तौ च मालाशब्दः पर्यन्तमङ्गलार्थ इति श्रेयः ।
इत्याख्यातप्रक्रिया सक्रियाहाँ सिद्धिं प्राप्ता श्रीगुरूणां प्रसादात् । प्रायोऽस्माकं पुण्यकृत्योद्यतानां सोऽयं शश्वद्दत्तहस्तावलम्बः ॥ १ ॥ यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे ___ राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया. . वृत्तौ पूर्णतया व्यराजत गुणैर्वृत्तिर्द्वितीयाद्भुता ॥१॥
भा
SANA
N
SSC
NASLIP
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org