Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 596
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां क्वाप्रत्ययाधिकारः ९६९ शासियुधिशिधृषिमृषातोऽनः ॥ १८६ ॥ [सि० ५।३१४१] कृच्छ्राकृच्छ्रार्थदुःखीषत्पूर्वेभ्य एभ्य आदन्ताच धातोरनः स्यात् । दुःशासनः सुशासनः ईपच्छासनः । दुर्योधनः ३ । दुर्दर्शनः ३ । दुर्धर्षणः ३ । दुर्मर्षणः ३ । दुरुत्थानम् ३॥१८६॥ 'शासि.' दुःखेन शिष्यते इति दुःशासनः । सुखेन शिष्यते सुशासनः । ईषत् अनायासेन ५ शिष्यते ईषच्छासनः । एवं दुर्योधनः सुयोधनः ईषद्योधनः इति रूपत्रयम् । त्रिकेणाङ्केन सर्वत्र ज्ञेयम् । आदन्त; दुःखेन उत्थीयते दुरुत्थानं भवता । सूत्थानं ईषदुत्थानं । दुष्पानं पयो भवता । सुपानं ईषत्पानम् । आदन्तवर्जितेभ्यः केचिद्विकल्पमिच्छन्ति । तन्मते दुःशासः दुर्दर्शः दुर्धर्षः दुर्मर्षः इत्याद्यपि भवति । कथमीषद्दरिद्रः ? आनप्रत्ययस्य विषयेप्याकारलोपेनादन्तत्वाभावात् खलेव । ननु धातोरकर्मकत्वाद्भावे प्रत्यये कथमत्र पुंस्त्वम् । दुरुत्थानमित्यादिवन्नपुंसकत्वप्राप्तिः ।१० सत्यम् । 'कालाध्व०' (२।२।२३) इत्यनेन मासादेः कर्मत्वे कर्मणि, खल्, न तु भावे, ततो यत्र मासादौ दरिदैर्भूयते स ईषद्दरिद्र उच्यते ॥ १८६॥ अथ क्त्वाप्रत्ययमभिधातुं प्रक्रमते । सूत्रम् प्राक्काले ॥ १८७॥ [सि० ५।४।४७] परकालेन धात्वर्थेन तुल्यकर्तके प्राकालेऽर्थे वर्तमानाद्धातोः सम्बन्धे क्त्वा वा स्यात् ।१५ आसित्वा भुते । 'हाको हि क्त्वि:' (१४।१४) हित्वा । 'उवर्णात्' (४।४।५९) इतीइ निषेधे भूत्वा । 'ईव्यञ्जनेऽयपि' (४३३९७) इति पीत्वा गीत्वा । यपि तु निपाय ॥ १८७॥ 'प्रा०' आसित्वा भुङ्क्ते इति । अत्रासिक्रियाया वर्तमानत्वेऽपि भुजिक्रियापेक्षया प्राक्काल्यम् । अत एव स्वाविकल्पपक्षे आस्यते भोक्तुमित्यत्र वर्तमाना । एवं भुक्त्वा ब्रजति । भुक्त्वा पुनर्भुते ।२० स्नात्वा भूत्वा पीत्वा व्रजति । पक्षे आस्यते भोक्तमित्यपि भवति । तुल्यकर्तृक इत्येव । भुक्तवति गुरौ शिष्यो ब्रजति । प्राकाल इति किम् ? भुज्यते पीयते वानेन । अथ यदनेन भुज्यते ततोऽयं पचति । यदनेनाधीयते ततोऽयं शेते इत्यत्र कथं स्वा न भवति । उच्यते । यत्र यच्छब्देन सह ततः शब्दः प्रयुज्यते तत्र ततःशब्देनैव प्राकालताभिधीयते इत्युक्तार्थत्वान्न भवति । यदनेन भुक्त्वा गम्यते ततोऽयमधीयते इत्यत्र भोजनगमनयोः क्रमे स्वा, गमनाध्ययनयोस्तु ततः शब्देनैव २५ क्रमस्याभिधानाद्गमेन भवति। अथात्र यथास्थानमुपयोगिसूत्राण्याह । 'हा' (४।४।१४) ओहांक् इत्यस्य तादौ किति क्वाप्रत्यये परे हिः स्यात् । ककारो हानिवृत्त्यर्थः । हात्वा । क्वि इति किम् ? हीनः । तीत्येव । प्रहाय । यङ्लुपि जहित्वा । द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । जाहित्वा उभयत्रेटि आतो लुक् । एवं धागोऽपि । 'धागः' (४।४।१५) इति सूत्रेण हिरादेशः । हित्वा । गकारः धेनिवृत्त्यर्थः । धीत्वा । ३० तीत्येव । प्रधाय । यलुपि दाधित्वा । 'दत्' (४।४।१०) इति सूत्रे धावर्जितस्य दासंज्ञस्य तादौ किति इत्यादेशे डुदांग्क् दत्वा । 'दासोमास्थ इ.' (१।४।११) इति एषां तादौ किति इत्वे दित्वा सित्वा मित्वा स्थित्वा । 'छाशोळ' (४।४।१२) इति छित्वा छात्वा । शित्वा शात्वा । उवर्णादित्यादिवार्तिकस्यायमर्थः । उवर्णान्तादेकखराद्धातोर्विहितस्य कित इड् न स्यात् । युत्वा ३४ है. प्रका० उत्त० १२२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636