Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 603
________________ ९७६ महामहोपाध्यायश्रीविनयविजयगणिविरचितेखोपज्ञहैमलघुद्विमोदिकिका त्रिमोदिकिकां त्यजति । दण्डे, द्वौ पादौ दण्डितो द्विपदिकां त्रिपदिकां द्विशतिका त्रिशतिकां द्विमोदिकिकां दण्डितः। वीप्सायां द्वौ द्वौ पादौ भुते । द्विपदिकां त्रि० । द्विशतिकां त्रि० । द्विमोदिकिकां मुझे । सङ्ख्यादेरिति किम् ? पादं ददाति पादं दण्डितः पादं पादं भुते । पादादिभ्य इति किम् ? द्वौ द्वौ माषौ ददाति । दानदण्डे चेति किम् ? द्वौ पादौ भुते । चकारो वीप्साया ५अनुकर्षणार्थः । लकारः स्त्रीत्वार्थः । लुग्वचनमनिमित्तलुगर्थम् । तेन पादः पद्भावो भवति । परनिमित्तायां तु लुचि स्थानिवद्भावो न स्यात् । पादादयो प्रयोगतोऽनुसतव्याः । एकैकं ददाति एकैकशो ददाति इत्यत्र तु वीप्सायां द्विवचने कृते अल्पार्थात्कारके शस् भवति । तथाहि 'बह्रल्पार्थात् कारकादिष्टानिष्टे शस्' (७।२।१५०) बह्वर्थादल्पार्थाच्च कारकाभिधायिनो नाम्नः प्शस्प्रत्ययो भवति । यथासङ्ख्यमिष्टेऽनिष्टे च विषये । इष्टं प्राशित्रादि । अनिष्टं श्राद्धादि । ग्रामे बहवो १० ददाति बहुशो ददाति, बहु धनं ददाति बहुशो धनं ददाति । विवाहे बहून् कार्षापणान् ददाति बहुशः कार्षापणान् ददाति । विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो देहि बहुशोऽतिथिभ्यो देहि । बहुशो ग्रामेषु वसति । एवं भूरिशः प्रभूतशः गणशः । अल्पार्थ-अल्प आगच्छति । अल्पं धनं ददाति अल्पशो धनं ददाति । श्राद्ध-अल्पैर्भुक्तम् अल्पशो भुक्तम् । अल्पेभ्यो ददाति अल्पशो ददाति । अल्पेभ्य आगतः अल्पशः आगतः । अल्पेषु वसति अल्पशो १५वसति । एवं स्तोकशः कतिपयशः । बह्वल्पार्थादिति किम् ? गां ददाति । अश्वं ददाति । कारकादिति किम् ? बहूनां स्वामी । इष्टानिष्ट इति किम् ? बहु ददाति श्राद्धे । अल्पं ददाति प्राशित्रादौ । पकारः पित्कार्यार्थः ॥ *समासेनापि अर्थ अर्थ प्रति पत्यर्थम् । गेहं गेहमनुप्रवेशमास्ते गेहानुप्रवेशमास्ते । अत्र समासेन वीप्साया उक्तत्वाहिर्वचनं न भवति । कचित्तु वीप्स्यमानमपि समासेनाभिधीयते पर्वणि पर्वणि सप्त पर्णान्यस्य सप्तपर्णः । पतौ पलावष्टौ पदान्यस्य अष्टापदम् । ननु च वृक्षं वृक्षं सिञ्चतीत्यादौ २० वीप्सायां बहवोऽर्थाः प्रतीयन्ते तत्र बहुषु बहुवचनं प्राप्नोति । उच्यते । पृथक्सङ्ख्यानामितिवचनात परिगृहीतैकत्वादिसङ्ख्यानां पदार्थानां वीप्सया योग इति पुनः समुदायावहुवचनं न भवति । 'आबाधे' (७।४।८५) आबाधो मनःपीडाप्रयोक्तृधर्मस्तस्मिन् विषये वर्तमानं शब्दरूपं द्विरुच्यते । तत्र चादौ पूर्वपदे स्यादेः प्लुप् स्यात् । ऋक् २ । पू: २ । गतगता नष्टनष्टा । ननकरोमि । ऋगादेर्दुरुच्चारणादिना पीड्यमानः प्रयोक्ता एवं प्रयुङ्क्ते । अष्टमी अष्टमी कालिका २ इत्यत्र पूरणप्रत्य२५ यान्तत्वात्कोपान्यत्वाच्च पुंवद्भावो न भवति । 'नवा गुणः सदृशेरित्' (७।४।८६) गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो वा द्विरुच्यते । तत्र चादौ वर्तमानस्य स्यादेः प्लुप् भवति । सा च रित् । रित्करणं प्रतिषिद्धस्यापि पुंवद्भावस्य 'रिति' (३।२।५८) इति विधानार्थम् । शुक्लशुक्लं रूपं शुकशुक्लः पटः । कालककालिका । शुक्लादिसदृशमपरिपूर्णगुणमेवमुच्यते । वाग्रहणात्पक्षे जातीयरपि भवति । शुक्लजातीयः पटुजातीयः । गुण इति किम् ? अग्निर्माणवकः गौर्वाहीकः । सदा३० गुणवाची यः स इह गृह्यते । अयं तु उपमानात् प्राग् द्रव्यवाची पश्चात्तु तैक्ष्ण्यजाड्यादिगुणवाचीति न भवति । सदृश इति किम् ? शुक्लः पटः पटुश्चैत्रः । 'प्रियसुखं चाकृच्छे' (७।४।८७) अक्लेशे वर्तमाने इमे द्विरुच्येते । तत्र चादौ शब्दस्य स्यादेः प्लुप् भवति । प्रियप्रियेण ददाति । सुखसुखेनाधीते । अकृच्छ्रेणेत्यर्थः । "वाक्यस्य परिवर्जने' (७४।८८) वाक्यस्य चावयवो न पदस्य, स वर्जने वर्तमानो वा द्विरुच्यते । परि, परित्रिगर्तेभ्यो वृष्टो मेघः । वाक्यस्येति किम् ? परित्रिगर्त ३५ वृष्टो मेघः । वाक्यस्यैवेत्यवधारणात्पदावयवे न भवति । 'असकृत् सम्भ्रम' (७४।७२) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636