________________
९७६ महामहोपाध्यायश्रीविनयविजयगणिविरचितेखोपज्ञहैमलघुद्विमोदिकिका त्रिमोदिकिकां त्यजति । दण्डे, द्वौ पादौ दण्डितो द्विपदिकां त्रिपदिकां द्विशतिका त्रिशतिकां द्विमोदिकिकां दण्डितः। वीप्सायां द्वौ द्वौ पादौ भुते । द्विपदिकां त्रि० । द्विशतिकां त्रि० । द्विमोदिकिकां मुझे । सङ्ख्यादेरिति किम् ? पादं ददाति पादं दण्डितः पादं पादं भुते । पादादिभ्य इति किम् ? द्वौ द्वौ माषौ ददाति । दानदण्डे चेति किम् ? द्वौ पादौ भुते । चकारो वीप्साया ५अनुकर्षणार्थः । लकारः स्त्रीत्वार्थः । लुग्वचनमनिमित्तलुगर्थम् । तेन पादः पद्भावो भवति । परनिमित्तायां तु लुचि स्थानिवद्भावो न स्यात् । पादादयो प्रयोगतोऽनुसतव्याः । एकैकं ददाति एकैकशो ददाति इत्यत्र तु वीप्सायां द्विवचने कृते अल्पार्थात्कारके शस् भवति । तथाहि 'बह्रल्पार्थात् कारकादिष्टानिष्टे शस्' (७।२।१५०) बह्वर्थादल्पार्थाच्च कारकाभिधायिनो नाम्नः प्शस्प्रत्ययो भवति । यथासङ्ख्यमिष्टेऽनिष्टे च विषये । इष्टं प्राशित्रादि । अनिष्टं श्राद्धादि । ग्रामे बहवो १० ददाति बहुशो ददाति, बहु धनं ददाति बहुशो धनं ददाति । विवाहे बहून् कार्षापणान् ददाति बहुशः कार्षापणान् ददाति । विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो देहि बहुशोऽतिथिभ्यो देहि । बहुशो ग्रामेषु वसति । एवं भूरिशः प्रभूतशः गणशः । अल्पार्थ-अल्प आगच्छति । अल्पं धनं ददाति अल्पशो धनं ददाति । श्राद्ध-अल्पैर्भुक्तम् अल्पशो भुक्तम् ।
अल्पेभ्यो ददाति अल्पशो ददाति । अल्पेभ्य आगतः अल्पशः आगतः । अल्पेषु वसति अल्पशो १५वसति । एवं स्तोकशः कतिपयशः । बह्वल्पार्थादिति किम् ? गां ददाति । अश्वं ददाति । कारकादिति किम् ? बहूनां स्वामी । इष्टानिष्ट इति किम् ? बहु ददाति श्राद्धे । अल्पं ददाति प्राशित्रादौ । पकारः पित्कार्यार्थः ॥ *समासेनापि अर्थ अर्थ प्रति पत्यर्थम् । गेहं गेहमनुप्रवेशमास्ते गेहानुप्रवेशमास्ते । अत्र समासेन वीप्साया उक्तत्वाहिर्वचनं न भवति । कचित्तु वीप्स्यमानमपि समासेनाभिधीयते पर्वणि पर्वणि सप्त पर्णान्यस्य सप्तपर्णः । पतौ पलावष्टौ पदान्यस्य अष्टापदम् । ननु च वृक्षं वृक्षं सिञ्चतीत्यादौ २० वीप्सायां बहवोऽर्थाः प्रतीयन्ते तत्र बहुषु बहुवचनं प्राप्नोति । उच्यते । पृथक्सङ्ख्यानामितिवचनात
परिगृहीतैकत्वादिसङ्ख्यानां पदार्थानां वीप्सया योग इति पुनः समुदायावहुवचनं न भवति । 'आबाधे' (७।४।८५) आबाधो मनःपीडाप्रयोक्तृधर्मस्तस्मिन् विषये वर्तमानं शब्दरूपं द्विरुच्यते । तत्र चादौ पूर्वपदे स्यादेः प्लुप् स्यात् । ऋक् २ । पू: २ । गतगता नष्टनष्टा । ननकरोमि ।
ऋगादेर्दुरुच्चारणादिना पीड्यमानः प्रयोक्ता एवं प्रयुङ्क्ते । अष्टमी अष्टमी कालिका २ इत्यत्र पूरणप्रत्य२५ यान्तत्वात्कोपान्यत्वाच्च पुंवद्भावो न भवति । 'नवा गुणः सदृशेरित्' (७।४।८६) गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो वा द्विरुच्यते । तत्र चादौ वर्तमानस्य स्यादेः प्लुप् भवति । सा च रित् । रित्करणं प्रतिषिद्धस्यापि पुंवद्भावस्य 'रिति' (३।२।५८) इति विधानार्थम् । शुक्लशुक्लं रूपं शुकशुक्लः पटः । कालककालिका । शुक्लादिसदृशमपरिपूर्णगुणमेवमुच्यते । वाग्रहणात्पक्षे जातीयरपि भवति । शुक्लजातीयः पटुजातीयः । गुण इति किम् ? अग्निर्माणवकः गौर्वाहीकः । सदा३० गुणवाची यः स इह गृह्यते । अयं तु उपमानात् प्राग् द्रव्यवाची पश्चात्तु तैक्ष्ण्यजाड्यादिगुणवाचीति
न भवति । सदृश इति किम् ? शुक्लः पटः पटुश्चैत्रः । 'प्रियसुखं चाकृच्छे' (७।४।८७) अक्लेशे वर्तमाने इमे द्विरुच्येते । तत्र चादौ शब्दस्य स्यादेः प्लुप् भवति । प्रियप्रियेण ददाति । सुखसुखेनाधीते । अकृच्छ्रेणेत्यर्थः । "वाक्यस्य परिवर्जने' (७४।८८) वाक्यस्य चावयवो न पदस्य,
स वर्जने वर्तमानो वा द्विरुच्यते । परि, परित्रिगर्तेभ्यो वृष्टो मेघः । वाक्यस्येति किम् ? परित्रिगर्त ३५ वृष्टो मेघः । वाक्यस्यैवेत्यवधारणात्पदावयवे न भवति । 'असकृत् सम्भ्रम' (७४।७२)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org