________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां क्त्वादिप्रत्ययाधिकारः ९७७ भयादिभिश्चित्तव्यापेक्षात्प्रयोक्तुस्त्वरणं सम्भ्रमस्तस्मिन् द्योत्ये पदं वाक्यमसकृदनेकवारं प्रयुज्यते । अहिरहिः बुद्ध्यस्ख २ अहिरहिरहिः बुद्ध्यस्व बुद्ध्यस्व बुद्ध्यस्व । हस्त्यागच्छति २ । लघु पलायध्वम् २ । सम्भ्रमादौ पदं वाक्यं वा द्विर्भवति । न पदावयवोऽतो नासावसकृद् द्विर्वा भवति । तच्च पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापरिनिष्पन्नमिति कृतेषु घत्वादिकार्येषु तदसकृद् द्विर्वा भवति । नाकृतेषु । द्रोग्धा २ । द्रोढा २ इत्येव भवति । नतु द्रोग्धा द्रोढा, द्रोढा द्रोग्धा । एवं माषवापाणि २.५ मातुःष्वसा २ ।हीणः २। कृतद्विर्वचनानामपि रूपार्थयोरभेदेन स्थानिवद्भावेन चैकपदत्वात् कौतस्कुतः पौनःपुनिक इत्यादिषु तद्धितः सिद्धो भवति । इति सप्रसङ्गं द्विवचनप्रकरणम् । अथ प्रकृतम् । वाधिकारेणैव पक्षे तवाप्रत्ययसिद्धौ चकारण तस्य विधानं वर्तमानादिप्रत्ययान्तरनिषेधार्थम् । ननु स्वादिभिर्भावे विधीयमानः कर्तुरनभिहितत्वात् ओदनं पक्त्वा भुके देवदत्त इत्यादिषु कर्तरि तृतीया प्राप्नोति । नैवम् । भुजिप्रत्ययेनैव कर्तुंरभिहितत्वान्न भवति । प्रधानशक्त्यभिधाने हि गुणशक्तिरभि-१० हितवत्प्रकाशते इति । ख्णम् इत्यस्य खित्त्वं चौरकारमाक्रोशतीत्यादौ मागमार्थम् , णित्त्वं वृद्ध्याद्यर्थम् ।
अत्रादिशब्दानुसन्धानात् 'पूर्वाग्रेप्रथमे (५।४।४९) एखूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धातोः सम्बन्धे ख्णम् वा स्यात् । अनाभीक्ष्ण्यार्थ पक्षे वर्तमानादिप्राप्त्यर्थं च वचनम् । पूर्व भोज ब्रजति । पूर्व भुक्त्वा व्रजति । अग्रे भोजं अग्रे भुक्त्वा । प्रथमं भोजं प्रथम भुक्त्वा ब्रजति । पक्षे वर्तमानादयोऽपि । पूर्व भुज्यते ततो ब्रजति । एवम प्रथमम् । पूर्वादयश्चात्र १५ व्यापारान्तरापेक्षे प्राक्काले व्रज्यापेक्षे तु क्त्वाख्णमाविति नोक्तार्थता; ततश्चायमर्थोऽन्यभोक्तभुजिक्रियाभ्यः स्खक्रियान्तरेभ्यो वा पूर्व भोजनं कृत्वा ब्रजतीत्यत्र पूर्वप्रथमसाहचर्यादग्रेशब्दः कालवाची न तु सप्तम्यन्तः ॥ २०२ ॥ सूत्रम्
अन्यथैवंकथमित्थमः कृगोऽनर्थकात् ॥ २०३ ॥ [सि० ५।४।५०] एभ्यचतुर्व्यः परात्तुल्यकर्तृकात् कगोऽनर्थकाद्धातोः सम्बन्धे रुणम् वा स्याम् । अन्यथाकारं २० एवंकारं कथंकारं इत्थंकारं भुते ॥ २०३॥
'अन्य' पक्षे क्त्वैव । अन्यथा कृत्वा मुझे इत्यादि । एवमुत्तरत्रापि । आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् । यावदुक्तं भवति अन्यथाभुङ्के, तावदुक्तं भवति अन्यथाकारं भुङ्के इति । अनर्थकादिति किम् ? अन्यथाकृत्वा शिरो मुक्के । अन्यथाशब्दः शिरःप्रकारे करीतेश्च शिरः कर्म करोतिना विना न गम्यते इति ।
२५ अत्रामू विशेषौ । 'यथातथादीयोत्तरे (५।४।५१) आभ्यां परात्तुल्यकर्तृकेऽर्थे वर्तमानादनर्थकात्करोतेर्धातोः सम्बन्धे सति ख्णम् वा स्यात् । ईय॑श्चेत्पृच्छते उत्तरं ददाति । कथं भवान् भोक्ष्यते इति पृष्टेऽसूयया तं प्रत्याह यथाकारमहं भोक्ष्ये । तथाकारमहं भोक्ष्ये । किं तवानेन किं ते मया यथाहं भोक्ष्ये तथाई भोक्ष्ये इत्यर्थः । ईर्योत्तरमिति किम् ? यथा कृत्वाहं भोक्ष्ये तथा प्रक्ष्यसि । अनर्थकादित्येव । यथा कृत्वाऽहं शिरो भोक्ष्ये, तथा कृत्वाहं ३० शिरो भोक्ष्ये, किं तवानेन । 'शापे व्याप्यात् (५।४।५२) अनर्थकादिति निवृत्तम् । शापेऽसम्भवात् । व्याप्यादिति भणनाद्वा । व्याप्यात्कर्मणः परात्तुल्यकर्तृकेऽर्थे वर्तमानात्करोतेर्धातोः सम्बन्धे रुणम् वा स्यात् । शापे आक्रोशे गम्ये । चौरंकारमाक्रोशति । करोतिरुच्चारणे । चौरं कृत्वा चौर-३३
__ है. प्रका० उत्त० १२३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org