________________
९७८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुशब्दमुच्चार्य चौरोऽसीत्याक्रोशतीत्यर्थः । एवं दस्युंकारं व्याधंकारम् । शाप इति किम् ? । चौरं कृत्वा हेतुभिः कथयति ॥ २०३ ॥ सूत्रम्
स्वाद्वर्थाददीर्घात् ॥ २०४ ॥ [सि० ५।४।५३ ] खाद्वर्थाददीर्घान्तात् व्याप्यात्परसात्तुल्यकर्तृकात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात् । ५स्वादुङ्कारं मृष्टङ्कारं भुङ्क्ते । पक्षे खाईंकृत्वा ॥ २०४॥
खाद' अयमस्यार्थः । स्वादोरर्थे वर्तमानाच्छब्दाददीर्घान्ताव्याप्यात्परस्मात्तुल्यकर्तृकेऽर्थे वर्तमानात्करोतेर्धातोः सम्बन्धे ख्णम् वा स्यात् । मृष्टंकारं । एवं सम्पन्न कारं लवणकारं । पक्षे खादु मृष्टं सम्पन्नं लवणं कृत्वा भुते । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा खादूकृत्वा सम्पन्नां कृत्वा यवागू
भुङ्क्ते । अस्वादु खादं कृत्वा स्वादुङ्कारं भुते इत्यत्र तु ङीच्च्योर्विकल्पितत्वान्न दीर्घ इति भवति । १० सम्पन्नंकारं यवागू भुङ्क्ते इति सामान्येन पदं निष्पाद्य पश्चाद्यवाग्वा सम्बन्धे भविष्यति ॥ २०४॥ अथ क्त्वातुमम् भावे इत्यत्रैव प्रक्रान्तं णम्प्रत्ययं निरूपयति सूत्रम्
विग्भ्यः कास्य णम् ॥ २०५॥ [सि० ५।४।५४ ] अतिथिवेदं भोजयति । कन्यादर्श वरयति ॥ २०५॥
'विद०' अस्यायमर्थः । कार्यविशिष्टाद्वथाप्यात्परेभ्यस्तुल्यकर्तृके प्राकालेऽर्थे वर्तमानेभ्यो १५ विदिभ्यो दृशेश्च धातोः सम्बन्धे णम् वा स्यात् । विद्यतेरकर्मकात्तद्वर्जास्त्रयो विदयो गृह्यन्ते । अतिथिवेदमिति । यं यमतिथिं जानाति लभते विचारयति वा तं तं सर्वं भोजयतीत्यर्थः । कन्यादर्शनमिति । यां यां कन्यां पश्यति तां तां सर्वां वरयतीत्यर्थः । बहुवचनं त्रयाणां विदीनां ग्रहणार्थमन्यथा निरनुबन्धग्रहणेन सानुबन्धस्येत्युपतिष्ठेत । काय॑ इति किम् ? अतिथिं विदित्वा भोजयति । कन्या दृष्ट्वा वरयति ॥ २०५ ॥ सूत्रम्
व्याप्याच्चेवात् ॥ २०६ ॥ [सि० ५४७१] व्याप्यात् कर्तुश्च उपमानात्पराद्धातोस्तस्यैव सम्बन्धे णम्वा स्यात् । सुवर्णनिधायं निहितः। काकनाशं नष्टः । एवं यावजीवमधीते । शुष्कपेषं पिनष्टि । *जीवग्राहं गृह्णाति इत्यादयोऽपि यथायोगं णम्प्रत्ययान्ता ज्ञेयाः ॥२०६॥
इति स्वादिप्रत्ययाधिकारः। २५ 'व्याप्या' सूत्रे इवादिति इवार्थादुपमानादित्यर्थः । सुवर्णनिधायमिति सुवर्णमिव निहित
इत्यर्थः । एवं रत्ननिधायं घृतनिधायं । शाकछेशं क्लिष्टः ओदनपाकं पकः । कर्तुंरुपमानात् , काकनाशमिति काक इव नष्ट इत्यर्थः । अभ्रविलायं विलीनः अभ्रमिव विलीनः इत्यर्थः ।
*णमप्रकरणं संक्षेपेण संगृह्णाति एवं यावज्जीवमिति । अत्र सूत्रम् । 'यावतो विन्दजीवः' (५।४।५५) कार्यविशिष्टाव्याप्याद्यावच्छब्दात्पराभ्यां विन्दजीविभ्यामेककर्तृकेऽर्थे वर्तमानाभ्यां ३० धातोः सम्बन्धे णम्वा स्यात् । विन्देति शनिर्देशाल्लाभार्थस्य ग्रहणम् । यावद्वेदं भुंक्ते यावल्लभते तावद्भुङ्क्ते इत्यर्थः । यावज्जीवमधीते, यावज्जीवति तावदधीते इत्यर्थः । जीवेः पूर्वकालासम्भवाद
पूर्वकाल एव विधिः । एवमतिथिवेदं भोजयतीत्यत्राप्यपूर्वकाल एव विधिः । भोजनक्रियायामार३३ ब्धायां परिवेषणादि भोजनाईलाभस्य समानकालत्वादिति । शुष्कपेषमिति । अत्र सूत्रम् 'शुष्क
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org