________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां णम्प्रत्ययाधिकारः ९७९ चूर्णरुक्षात्पिषस्तस्यैव' (५।४।६०) एभ्यः कर्मभ्यः परात् पिषेणम्वा स्यात् । तस्यैव धातोः सम्बन्धे सति शुष्कपेषमिति शुष्कं पिनष्टीत्यर्थः । एवं चूर्णपेषं रूक्षपेषं शुष्कपेषं पिष्टः पेष्टव्यः पिज्यते । क्तादिभिरक्तेऽपि व्याप्ये तदुपपदतास्त्येव प्रयोगानुप्रयोगक्रिययोरैक्यानुल्यकर्तृकत्वं, प्राकालत्वं च नास्तीत्यत्र प्रकरणे, पक्षे क्त्वा न भवति घनादयस्तु भवन्ति । शुष्कस्य पेषं पिनष्टि । सामान्यविशेषभावविवक्षया च धातुसम्बन्धः । यदाहुः 'सामान्यपुरवयपुषिः कर्म भवतीति' ।५ कश्चित्तु सामान्यविशेषभावविवक्षयात्रापि क्रियाभेदोऽस्तीति तुल्यकर्तृकत्वं प्राकालत्वं च । तेन क्त्वापि निमूलं कषित्वा कषति । *जीवप्राहमिति ( पृष्ठ ९७८) । जीवन्तं गृहातीत्यर्थः । अत्र 'कृग्नहोऽकृतजीवात्' इति णम् । सूत्रं चैतत् गृहातिधातुव्याख्याने व्याख्यातम् । (पृष्ठ ७३५)
उक्तशेषं णम्प्रत्ययप्रकरणम् संक्षेपेण निर्दिशति इत्यादयोऽपीत्यादि (पृष्ठ ९७८)। तञ्चैवम् 'चर्मोदरात्पूरे (५।४।५६) आभ्यां व्याप्याभ्यां परादेककर्तृकेऽर्थे वर्तमानात्पूरयतेर्धातोः सम्बन्धे णम् १० (१।४।५७) वा स्यात् । चर्मपूरमास्ते पूरयित्वा आस्ते इत्यर्थः । एवमुदरपूर शेते । 'वृष्टिमाने ऊलुक चास्य वा' व्याप्यास्परात् पूरयतेर्धातोः सम्बन्धे णम् वा स्यात्। अस्य उकारस्य तु लुग् वा स्यात् । समुदायेन चेदृष्टिमानं गम्यते । गोष्पदप्रंगोष्पदपूर वृष्टो मेघः । एवं सीतां प्रसीतापूरं । यावता गोष्पदादि पूर्यते तावदृष्ट इत्यर्थः । अस्येति ग्रहणादुपपदस्य न भवति । मूषिकबिलपूरं । वृष्टो मेघः गोष्पदप्रमिति । प्रातेर्धातोः 'आतो डो हावामः' (५।११७६) इति डेन गोष्पदपूरमित्यणा च क्रियाविशेषणत्वेन सिद्ध्यति ।१५ एवं सर्वे णमन्ताःप्रयोगाः। तत्रणम् विधानमव्ययत्वेन तरामाद्यर्थमनुस्खारश्रवणार्थ च । गोष्पदअन्तरां गोष्पदअन्तमाम् । गोष्पदप्रकल्पं रूपं देश्य देशीयं । गोष्पदपूरतरां तमां रूपं कल्पं देश्य देशीयमित्यादि सिद्धं भवति । अन्यथा हि गोष्पदप्रतरं गोष्पदपूरतरमित्यायेव स्यात् । गोष्पदप्रेण गोष्पदप्री भवति । गोष्पदपूरेण गोष्पदपूरी भवतीत्यादिप्रयोगास्तु घमादिप्रत्ययान्ता द्रष्टव्याः। 'चेलार्थात् कोपे (५।४।५८) अस्माद्वयाप्यात्परात् कोपयतेस्तुल्यकर्तृकेऽर्थे वर्तमानादृष्टिमाने गम्ये धातोः सम्बन्धे णम् २० वा स्यात् । चेलकोपं वृष्टो मेघः । एवं वस्त्रकोपं वसननोपं यावता चेलं नूयते आर्दीभवति तावदृष्ट इत्यर्थः । अर्थग्रहणादन खरूपपर्यायविशेषाणां त्रयाणामपि ग्रहणम् । तेन पटिकानोपं कम्बलकोपमित्यादि चेलविशेषादपि भवति । अयमप्यप्राकाले विधिः । 'गात्रपुरुषाला' (५।४५९) आभ्यां व्याप्याभ्यां परादन्तर्भूतण्यर्थात् स्मातेस्तुल्यकर्तृकेऽर्थे वर्तमानादृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा स्यात् । गात्रलायं पुरुषस्नायं वृष्टो मेघः । यावता गात्रं पुरुषश्च ममाप्यते तावदृष्ट इत्यर्थः ।२५ 'निमूलास्कषः' (५।४।६२) अस्मान्याप्यात्परात् कषेरस्यैव धातोः सम्बन्धे णम्वा । निमूल. मित्यत्रात्ययेऽव्ययीभावः । निर्गतानि निमूलान्यस्येति बहुव्रीहिर्वा । निमूलकाषं कषति निमूलं कषतीत्यर्थः । पक्षे निमूलस्य कार्य कषति । 'हनश्च समूलात् (५।४।६३ ) अस्माब्याप्यात्परा. द्धन्तेः कषेश्च तस्यैव धातोः सम्बन्धे णम् वा स्यात् । समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा समूलघातं हन्ति समूलं हन्तीत्यर्थः । समूलकाषं कषति समूलं कषतीत्यर्थः । 'करणेभ्यः '३० (५।४।६४) करणात्कारकात्पराद्धन्तेस्तस्यैव धातोः सम्बन्धे सति णम्वा स्यात् । पाणिघातं कुड्यमाहन्ति । पादघातं शिला हन्ति । पाणिना पादेन वा हन्तीत्यर्थः । बहुवचनं व्याप्त्यर्थम् । तेन करणपूर्वाद्धिसार्थादपि हन्तेरनेनैव णम् । ननु 'हिंसार्थादेकाप्यात्' (५।४।७४) इत्यनेन अस्युपघातमरीन् शरोपघातं मृगान् हन्ति । तथा च सति नित्यसमासस्तस्यैषधातोरनुप्रयोगश्च सिद्ध्यति । 'खलेहार्थीत्पुषपिषः' (५।४।६५) आत्मात्मीयं ज्ञातिर्धनं च स्वम् । निमते सिच्यते येनोदकादिना तत् नेहनम् ।३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org