________________
९८०
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
स्वार्थात् स्नेहनार्थाश्च करणवाचिनः पराद्यथासङ्ख्यं पुषः पिषश्च तस्यैव धातोः सम्बन्धे सति णम्वा स्यात् । स्वपोषं पुष्णाति पुष्यति पोषति वा । एवमात्मपोषं गोपोषं महिषीपोषं पितृपोषं रैपोषम् । स्वादिभिः पुष्णातीत्यर्थः । स्नेहनार्थात् उदपेषं पिनष्टि । एवं क्षीरपेषम् । उदकादिना पिनष्टीत्यर्थ: । 'कर्तुर्जी - पुरुषान्नश्वहः' (५/४१६९ ) कर्तृवाचिभ्यां जीवपुरुषाभ्यां पराभ्यां यथासङ्ख्यं नशिवहिभ्यां ५ तस्यैव धातोः सम्बन्धे णम्वा स्यात् । जीवनाशं नश्यति । जीवन्नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषः प्रेष्यो भूत्वा बहतीत्यर्थः । कर्त्तरिति किम् ? जीवेन नश्यति । पुरुषं वहति । 'ऊर्द्धात् पूः शुषः' (५/४/७०) कर्तृवाचिन ऊर्ध्वशब्दात् परात्पूरः शुषश्च तस्यैव धातोः सम्बन्धे णम्वा स्यात् । पूरीत्यनिर्देशात् पूर्दैवादिको न चौरादिकः । ऊर्ध्वपूरं पूर्यते ऊर्ध्वः पूर्यते । ऊर्द्धशोषं शुध्यति ऊर्द्धः शुष्यतीत्यर्थः । ‘उपात् किरो लवने' (५।४।७२) उपपूर्वात् किरतेले वनेऽर्थे वर्त्तमानस्य धातोः १० सम्बन्धे णम्वा स्यात् । लवन इति वचनात्तस्यैवेति निवृत्तम् । उपस्कारं मद्रका लुनन्ति विक्षिपन्तो लुनन्तीत्यर्थः ( लवन इति किम् ? उपकीर्य गच्छति ) । 'दंशेस्तृतीयया' (५।४।७३ ) तृतीयान्तेन योगे उपपूर्वात्तुल्यकर्तृकेऽर्थे वर्त्तमानादंशेरन्यस्य धातोः सम्बन्धे णम्वा स्यात् । मूलकेनोपदंशं मूलको पदंशं भुङ्क्ते । एवमार्द्रकोपदंशम्, पक्षे मूलकेनार्द्रकेणोपदश्य भुङ्क्ते । मूलकाद्युपदंशेः कर्माणि प्रधानस्य भुजेः करणमिति तृतीयैव भवति । प्रधानक्रियोपयुक्ते हि कारके गुणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितु१५ मलमप्रधानत्वादेव । यथा पक्त्वा भुज्यते ओदन इति । यदा त्ववयवक्रियापेक्षया पूर्वकालविवक्षायां क्त्वा क्रियते । तदा क्रियाभेदात् सम्बन्धाभेदे द्वितीयापि भवति । मूलकमुपदश्य भुङ्क्ते इति । 'हिंसार्थादेकाप्यात्' (५।४।७४ ) हिंसार्थाद्धातोः सम्बध्यमानेन धातुना एककर्मकात्तृतीयान्तेन योगे तुल्यकर्तृकेऽर्थे णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातं गाः सादयति । खङ्गेन प्रहारं खड्गप्रहारं शत्रून् विजयते । पक्षे दण्डेनोपहत्येत्यादि । हिंसार्थादिति किम् ? चन्दनेनानुलिप्य जिनं २० पूजयति । एकाप्यादिति किम् ? दण्डेनाहत्य चौरं गोपालो गाः खेटयति । 'उपपीडरुधकर्ष - स्तत्सप्तम्या' (५।४।७५ ) तया तृतीयया युक्ता सप्तमी तत्सप्तमी तदन्तेन योगे उपपूर्वेभ्य एभ्यस्तुल्यकर्तृकेभ्यो वर्त्तमानेभ्यो धातोः सम्बन्धे णम् वा स्यात् । पार्श्वाभ्यामुपपीडं पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडं पार्श्वयोपपीडं शेते । व्रजेनोपरोधं व्रजोपरोधं गाः सादयति । व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति । पाणिनोपकर्ष पाण्युपकर्ष धानाः पिनष्टि । पाणावुपकर्ष पाण्युपकर्षं धाना २५ गृह्णाति । कर्ष इति शवृनिर्देशाद्भौवादिकस्य । कर्षन्ति शाखां ग्राममिति द्विकर्मकस्याकर्षणार्थस्य प्रहणम न तु तौदादिकस्य । पञ्चभिः हलैः कृषतीति विलेखनार्थस्य, तेन भूमावुपकृष्य तिलान्वपति हलेनोपकृष्य बपतीत्यत्र न भवति । अन्ये त्वनयोरर्थभेदमप्रतिपद्यमानास्तौदादिकादपीच्छन्ति । उपेति किम् ? पार्श्वेन निपीड्य शेते । अन्ये तु उपपूर्वादेव पीडेरिच्छन्ति रुधकर्षाभ्यां तु कामचारेण तेन व्रजरोधं गाः स्थापयति हस्तरोधं दधद्धनुः ब्रजेन रोधं हस्तेन रोधं । उपपूर्वादपि व्रजोपरोधम् । अन्यो३० पसर्गपूर्वादपि ब्रजानुरोधं गाः स्थापयति । एवं पाणिना कर्षं पाणौ कर्षं पाणिनाकर्षं धाराना गृह्णातीत्याद्य भवति । 'प्रमाणसमासस्यो:' ( ५।४।७६) आयाममानम् प्रमाणम् । संरम्भपूर्वकः सन्निकर्षः समासत्तिः । मनःसंक्षोभपूर्वको वा कायविकारविशेषः संरम्भः । अनयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे धातोस्तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे णम्वा स्यात् । व्यङ्गुलेनोत्कर्ष व्यङ्गुलोत्कर्षम् । व्यङ्गुले उत्कर्षं व्यङ्गुलोत्कर्ष गण्डिकाछिनत्ति । समासत्तौ, केशैर्ग्राहं केशग्राहं । केशेषु प्राहं केशमा ३५ युध्यन्ते । एवं हस्तग्राहं अस्यपनोदं युध्यन्ते । संरम्भादत्यन्तं सन्निकृष्य युद्ध्यन्ते इत्यर्थः । क्षे
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org