________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां णम्प्रत्ययप्रकरणम्
९८१
व्यङ्गुलेन व्यङ्गुले उत्कृष्य गण्डिकां छिनत्ति । केशैर्गृहीत्वा केशेषु गृहीत्वा युद्ध्यन्ते । 'पञ्चम्या त्वरायाम्' (५।४।७७ ) अस्यां गम्यायां पचम्यन्तेन योगे धातोस्तुल्यकर्तृकेर्थे वर्त्तमानाद्धातोः सम्बन्धे णम् वा स्यात् । [ त्वरा परीप्सा औत्सुक्यमिति यावत् ] शय्याया उत्थानं शय्योत्थानं धावति । त्वरयावश्यकादिकमपि नापेक्षते । स्तनरन्ध्रादपकर्ष स्तनरन्ध्रापकर्ष पयः पिवति । त्वरया पात्रे दोहमध्यप्रतीक्ष्य मुख एव पयः पिबतीत्यर्थः । पक्षे शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसना-५ दुत्थाय गच्छति । 'द्वितीयया' (५।४।७८) द्वितीयान्तेन योगे धातोस्तुल्यकर्तृकेऽर्थे वर्त्तमानात् त्वरायां गम्यायां धातोः सम्बन्धे णम् वा स्यात् । लोष्ठान् ग्राहं लोष्ठप्राहं दण्डमुद्यामं दण्डोद्यामं युद्ध्यन्ते एवं नाम योद्धुं त्वरन्ते । यदायुधग्रहणमपि नाद्रियन्ते यत्किञ्चिदासनं तद् गृह्णन्ति । पक्षे लोष्ठान् यष्टीन गृहीत्वा युद्ध्यन्ते । त्वरायामित्येव, खतं गृहीत्वा युध्यन्ते । योगविभाग उत्तरार्थः । 'खाङ्गेनाधुवेण' (५।४।७९) यस्मिन्नने छिन्ने भिन्ने वा प्राणि न म्रियते तदध्रुवम् । अश्रुवेण परिभाषितखाङ्गेन १० द्वितीयान्तेन योगे धातोस्तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे णम्वा स्यात् । भ्रुवौ विक्षेपं
1
विक्षेपं जल्पति । अक्षिणी निकाणं अक्षिनिकाणं हसति । केशान् परिधायं केशपरिधायं नृत्यति । प्रतिमाया पादावनुलेपं पादावनुलेपं प्रणमति । पक्षे भ्रुवौ विक्षिप्य जल्पति । स्वाङ्गेनेति किम् ? कफमुन्मूल्य जल्पति । अधुवेणेति किम् ? शिर उत्क्षिप्य कथयति । 'परिक्लेश्येन' (५।४।८० ) परिसमन्तात् पीड्यमानेन द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे णम् वा स्यात् । १५ ध्रुवगार्थोऽयमारम्भः । उरांसि प्रतिपेषं उरःप्रतिपेषं युद्ध्यन्ते । शिरांसि छेदं शिरश्छेदं युद्ध्यन्ते । उरांसि परिपीड्यन्तः शिरांसि छिंदन्तो युध्यन्ते इत्यर्थः । पक्षे उरांसि प्रतिपिष्य शिरांसि छित्त्वा । 'विशपतपदस्कन्दवीप्साभीक्ष्ण्ये' (५।४।८१) श्रुतत्वाद्विश्यादि क्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा वीप्सा । प्रकृत्यर्थस्य पुनः पुनरासेवनमाभीक्ष्ण्यम् । यदाहु: 'सुप्सु वीप्सा ति अव्ययकृत्सु चामीक्ष्ण्यमिति' । द्वितीयान्तेन योगे विश्यादिभ्यस्तुल्यकर्तृकेऽर्थे वर्त्तमानेभ्यो बीप्सा- २० यामामीक्ष्ण्ये च गम्यमाने धातोः सम्बन्धे णम् वा स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपादं गेहानुप्रपाद्मास्ते । गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते । गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते । गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते । पक्षे गेहं गेहमनुप्रविश्यास्ते । गेहमनुप्रविश्यानुप्रविश्यास्ते इत्यादि । वीप्सायामुपपदस्य द्विर्वचनम् । आभीक्ष्ण्ये धातोर्द्विर्वचनम् । गेहानुप्रवेशमा स्ते २५ इत्यादौ तु वीप्साभीक्ष्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते इति द्विर्वचनं न भवति । आभीक्ष्ण्ये णम् सिद्ध एव, विकल्पेनोपपदसमासार्थं वचनम् । 'ख्णम् चाभीक्ष्ण्ये' ( ५।४।४८) इत्यनेन हि रुणमि समासो न स्यात् । वीप्सामीक्ष्ण्य इति किम् ? गेहमनुप्रविश्यास्ते । 'कालेन तृष्यखः क्रियान्तरे' (५।४।८२) क्रियामन्तरयतीति क्रियान्तरः क्रियाव्यवधायकस्तस्मिन्नर्थे वर्त्तमानाभ्यां तृष्यसूभ्यां धातुभ्यां द्वितीयान्तेन कालवाचिना योगे धातोः सम्बन्धे णम् वा स्यात् । व्यहं तर्ष व्यहतर्षं व्यहमत्यासं ३० यहात्यासं गावः पिबन्ति । तर्षेणात्यासेन च गवां पानक्रिया व्यवधीयते; अद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः । अन्तर्मुहूर्त्तमत्यासमन्तमुहूर्त्तात्यासं सम्यक् पश्यन्ति, सम्यग्दृष्ट्वान्तर्मुहूर्त्त मिथ्यात्वमनुभूय पुनः सम्यग्दृष्टयो भवन्तीत्यर्थः । कालेनेति किम् ? योजनं तर्षित्वा योजनमत्यस्य गावः पिबन्ति । तृष्यस्व इति किम् ? व्यहमुपोष्य भुङ्क्ते । क्रियान्तर इति किम् ? अहरत्यस्येषून् गतः । अहरिषूनत्यस्य गत इत्यर्थः । इहात्यासेनाहरिषवञ्च व्याप्यन्ते, नतु गतिक्रिया व्यवधीयते । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org