________________
९८२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'नामा ग्रहादिशः' (१।४।८३) नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद्बहेरादिशश्च धातोः सम्बन्धे णम्वा स्यात् । नामानि प्राहं नामग्राहमालयति । नानी देवदत्तो ग्राहं नामग्राहं देवदत्त आह्वयति । 'यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन स' इति न्यायादेवदत्तव्यवधानेऽपि भवति । नामान्यादेशं नामादेशं ददाति । पक्षे नाम गृहीत्वा नामादिश्य दत्ते । 'कृगोऽव्यये. ५नानिष्टोक्ती स्वाणमौ' (५।४।८४) अव्ययेन योगे कृगस्तुल्यकर्तृकेऽर्थे वर्तमानादनिष्टोक्ती गम्यायां धातोः सम्बन्धे क्त्वाणमौ स्याताम् । प्राह्मण पुत्रस्ते जातः किं तर्हि वृषल नीचैः कृत्वा नीचैःकृत्य कथयसि किं तर्हि नीचेषल कारं वृषल नीचैःकार कथयसि । उच्चै म प्रियमाख्येयम् । ब्राह्मण कन्या ते गर्भिणी किं तर्हि वृषल उचैःकृत्वा उच्चैःकृत्य कथयसि किं तर्हि उच्चैर्वृषलकार
वृषलोचैःकारं कथयसि नीचैर्नामाप्रियमाख्येयम् । अनिष्टोक्ताविति किम् ? उच्चैः कृत्वाचष्टे । १० प्राह्मण पुत्रस्ते जातः इति । नीचैः कृत्वाचष्टे ब्राह्मण कन्या ते गर्भिणी जातेति । अव्ययेनेति किम् ? प्रामण पुत्रस्ते जातः किं तर्हि वृषल मन्दं कृत्वा कथयसि । ब्राह्मण कन्या ते गर्भिणी जातेति । किं तर्हि वृषल तारं कृत्वा कथयसि । घाधिकारेणैव पक्षे क्त्वायाः सिद्धौ समासाथ तद्विधानम् , अन्यथा हि णम एव पाक्षिकः समासः स्यात्, न तुक्त्वः । क्त्वा चेत्यकृत्वा णविधानमुत्तरत्रोभयानुवृत्त्यर्थम् । 'तिर्यचापवर्गे' (५।४।८५) अपवर्गः क्रियासमाप्तिः समाप्तिपूर्वको वा विरामः त्यागो वा । तस्मिन् १५गम्यमाने तिर्यच इत्यनेनाव्ययेन योगे करोतेस्तुल्यकर्तृकेऽर्थे वर्तमानाद्धातोः सम्बन्धे क्त्वाणमौ वा स्याताम् । तिर्यकृत्वा तिर्यकृत्य तिर्यकारमास्ते । समाप्य विरम्य वा उत्सृज्य वास्ते इत्यर्थः । अपवर्ग इति किम् ? तिर्यकृत्वा काष्ठं गतः । 'खाङ्गतश्चव्यर्थे वा नानाविनाधार्थेन भुवश्च' (५।४।८६) स्वाङ्गमुक्तलक्षणम् , तस्प्रत्ययान्तेन वाङ्गेन व्यर्थवृत्तिभिर्नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे भुवः कृगश्च तुल्यकर्तृकेऽर्थे वर्तमानाद्धातोः सम्बन्धे क्त्वाणमौ भवतः । वचनभेदाद्धातुप्रत्यय२० यथासङ्घयं नास्ति । मुखतो भूत्वा, मुखतो भूय, मुखतो भावमास्ते । मुखतः कृत्वा, मुखतः कृत्य, मुखतः कारमास्ते । पार्श्वतो भूत्वा, पार्श्वतो भूय, पार्वतो भाव शेते । पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते । अनाना नाना भूत्वा, नानाभूय, नानाभावं गतः । अनाना नानाकृत्वा, नानाकृत्य, नानाकारं गतः । एवं विना भूत्वा, विनाभूय, विनाभावं गतः । विनाकृत्वा, विनाकृत्य, विनाकार गतः । धार्था धा धमञ् एधा थ्यमनः। द्विधाभूत्वा द्विधाभूय द्विधाभावमास्ते । द्विधाकृत्वा ३० द्वैधं २५भूत्वा ३० द्वैधंकृत्वा ३० द्वैधा भूत्वा ३० द्वेधा कृत्वा ३० ऐकध्यंभूत्वा ३० ऐकध्यंकृत्वा ३० ।
धणस्तु प्रकारविचालवदर्थत्वेनाधार्थत्वाव्यदयाधिकाराच निरासः । धार्थो हि प्रकारो विचालो वा । 'अधण्तखाद्याशसः' (१।१।३२) इति वचनात्, धण्प्रत्ययान्तस्य नाव्ययत्वम् । अस्यापि ग्रहणमित्यन्ये । अव्ययाधिकारादेव च मुखे तस्सति मुखतः कृत्वा गतः इत्यत्र न भवति । खाङ्गेति किम् ?
सर्वतो भूत्वास्ते । तसिति किम् ? मुखे भूत्वा गतः । च्च्यर्थ इति किम् ? नानाकृत्वा भक्ष्याणि भुङ्क्ते । ३०द्विधाकृत्वा काष्ठानि गतः । 'तूष्णीमा' (१।४।८७) तूष्णींशब्देन योगे भवतेर्धातोः सम्बन्धे क्त्वाणमौ भवतः । तूष्णीभूत्वा तूष्णीभूय तूष्णीभाषमास्ते । 'आनुलोम्येऽन्वचा' (५।४।८८ ) आनुलोम्यमनुकूलता परचित्ताराधनम् । अन्वचित्यनेनाव्ययेन योगे भुवस्तुल्यकर्तकेऽर्थे वर्तमानादा. नुलोम्ये गम्यमाने धातोः सम्बन्धे क्त्वाणमौ भवतः । अन्वग्भूत्वा अन्वग्भूय अन्वग्भावमास्ते ।
अनुकूलो भूत्वा तिष्ठतीत्यर्थः । आनुलोम्य इति किम् ? अन्वग्भूत्वा विजयते शत्रुम् पश्चाद्भवेत्यर्थः । ३५ तिर्यचान्वचाचेतिशब्दानुकरणात्तिरश्चानूचेति न भवति । *इति णम् प्रत्ययप्रकरगम् - ॥ २०६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org