________________
९८३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां कृत्यप्रत्ययाः
अथ भावकर्मणोः पञ्च कृत्यप्रत्ययाः। अथ कृत्यप्रत्ययानिरूपयितुमाह । अथेति, भावकर्मणोरिति । 'तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च' (३।३।२१ ) इति वचनात् पञ्च कृत्या इति । तथा च सूत्रम् 'ते कृत्या:' (५।१।४७) ते ध्यण तव्य अनीय य क्यप् इत्यते प्रत्ययाः कृत्यसंज्ञाः स्युः । कृत्यप्रदेशाः 'कृत्यस्य वा' (२।२।८८) इत्यादयः । क्रमेण तानाह-सूत्रम्
- ऋवर्णव्यञ्जनाद् ध्यण ॥ २०७॥ [सि० ५।१।१७] ऋवर्णान्ताद् व्यञ्जनान्ताच धातोय॑ण स्यात् । कार्यम् ॥ २०७॥ 'ऋवर्ण' कार्यमिति । एवं धार्य हार्य पाक्यम् । णकारो वृद्ध्यर्थः । पकारः 'तेऽनिट०' (४।१।१११) इत्यत्र विशेषणार्थः ॥ २०७ ॥ वाच्यमित्यादौ तेऽनिटश्चजोः कगौ घिति' (४।१।१११) इति कत्वादौ प्राप्तेऽपवादसूत्राणि
वचोऽशब्दनानि ॥ २०८ ॥ [सि० ४।१।११९] अशब्दसंज्ञायां वय॑णि को न स्यात् । वाच्यम् । शब्दसंज्ञायां तु वाक्यम् ॥ २०८॥ 'वचो.' वाच्यमित्यादौ 'तेऽनिटश्च' (४।१।१११) । वाच्यमाह अवाच्यमाह । वाक्यमिति सविशेषणमाख्यातं वाक्यमिति शब्दसंज्ञा ॥ २०८ ॥ सूत्रम्
निप्राद्यजः शक्ये ॥ २०९ ॥ [सि० ४।१।११६] आभ्यां युजः शक्ये गम्ये ध्यणि गो न स्यात् । नियोज्यः प्रयोज्यः । शक्य इति किम् । नियोग्यः ॥२०९॥
'निप्रा०' नियोक्तुं शक्यः नियोज्यः प्रयोज्यः । शक्य इति किम् ? नियोग्यः प्रयोग्य ॥ २०९ ॥ सूत्रम्
भुजो भक्ष्ये ॥ २१०॥ [सि० ४।१।११७] भक्ष्येऽर्थे भुजो घ्यणि गो न स्यात् । भोज्यं पयः । अभक्ष्ये तु भोग्या भूः ॥ २१० ॥ "भुज.' अस्थायमर्थः । भुजो भक्ष्येऽर्थे ध्यणि परतो गो न स्यात् । भोज्यमन्नं । भोज्या यवागूः । भोज्यं पयः । भक्ष्य इति किम् ? भोग्यः कम्बलः प्रावरणीयः इत्यर्थः । भोग्याः भा पालनीया इत्यर्थः । भक्ष्यमभ्यवहार्यमात्रमेव । न तु खरविशदमोहनादिकमेव खरविशदं नाम कठोरप्रत्यक्षम् । अकठिनस्य द्रव्यस्य जलादेरप्रत्यक्षस्य वाय्वादेरपि भक्ष्यत्वात् । यथा अपभक्ष्यः ।२५ वायुभक्ष्यः ॥ २१० ॥ सूत्रम्
त्यजयजप्रवचः ॥ २११ ॥ [सि० ११११११८] एषां ध्यणि कगौ न स्याताम् । त्याज्यं याज्यं प्रवाच्यः ॥२११ ॥ 'त्या' याज्यमिति । अत एव प्रतिषेधात् यजेयणपि । प्रवचिग्रहणं शब्दसंज्ञार्थम् । प्रवाच्यो नाम पाठविशेषस्तदुपलक्षितो प्रन्थोऽप्युच्यते । उपसर्गनियमार्थ वा । प्रपूर्वस्यैव वचेरशब्दसंज्ञायां ३० प्रतिषेधो नान्योपसर्गपूर्वस्य । दशानां रात्रीणां समाहारो दशरात्रम् । दशरात्रनिष्पाद्यो यज्ञो । शरात्रः । दशरात्रमऽस्यास्तीत्यभ्रादित्वादप्रत्यये वा । दशरात्रस्य यज्ञस्य यद्दशममहस्तदधिवाक्यं३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org