________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां प्रसङ्गाहिर्वचनप्रकरणम् ९७५ नयोर्लक्ष्मीः । लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः । इयं स्त्री भवति न भाव इति । प्रश्न इति किम् ? उभाविमावाल्यौ यतरानयोराढ्यता ततरा श्रूयताम् । केचित्तु डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यत्रापीच्छन्ति । उमाविमावाढ्यौ कीदृशी २ अनयोराढ्यता । कतरत् कतरदनयोराढ्यत्वम् । कतमः कतमोऽनयोर्विभवः । कतराऽनयोराढ्यतेत्यादौ प्राप्ते स्वार्थिकं द्विवचनम् । 'पूर्वप्रथमावन्यतोऽतिशये (७४।७७) अन्यतोऽतिशये तदर्थस्य प्रकर्षे द्योये एतौ द्विरुच्येते । आतिशायिकापवादः ।५ पूर्व २ पुष्पन्ति प्रथमं २ पच्यन्ते । अन्येभ्यः पूर्वतरं पुष्पन्ति प्रथमतरं पच्यन्त इत्यर्थः । अन्यत इति किम् ? पूर्वतरं पुष्पन्ति प्रथमतरं पच्यन्ते । अत्र स्वव्यापारापेक्षोऽतिशयो गम्यते । न तावदिमे किशलयिता यावत्पुष्पिताः । न तावदिमें पुष्पिता यावत्पक्का इति । अतिशय इति किम् ? पूर्व प्रथम पुष्पन्ति । अन्येऽतिशयमात्रेपि द्विर्वचनमिति । तमप्तरबर्थ विकल्पं च । 'प्रोपोत्सं पादपूरणे' (७४७८) एते चत्वार उपसर्गा द्विरुच्यन्ते तेन चेत् पादः पूर्यते । प्रप्रशान्तकषायाग्नेरुपोपप्ल-१० वर्जितम् । उदुज्वलं तपो यस्य संसंश्रयत तं जिनम् ॥ १॥ पादपूरणे इति किम् ? प्रणम्य सच्छासनवर्द्धमानम् । इदं छन्दसीति कश्चित् ['सामीप्येऽधोऽध्युपरि' (७४७९) अधस् अधि उपरि इत्येतानि शब्दरूपाणि द्विरुच्यन्ते सामीप्ये विवक्षिते । सामीप्यं देशकृता कालकृता वा प्रत्यासत्तिः । अधोऽधो ग्रामम् । अध्यधिग्रामं । उपर्युपरि ग्रामम् । उपर्युपरि दुःखानि । सामीप्य इति किम् ? अधः पन्नगाः । अधि ब्रह्मदत्ते पाञ्चालाः । उपरि चन्द्रमाः । कथमुपरि शिरसो घट इति ? १५ अत्रौत्तराधर्यमानं विवक्षितम् , न सदपि सामीप्यमिति न भवति । यथायथामिति मकारान्तमव्ययं यथास्वमित्यर्थे आश्रीयते इति यथावे यथायथमिति नारभ्यते ] 'वीप्सायाम्' (७।४।८०) पृथक संज्ञा युक्तानां बहूनां सजातीयानामर्थानां साकल्येन प्रत्येक क्रियया गुणेन द्रव्येण जात्या वा युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । तस्यां वर्तमानं शब्दरूपं द्विरुच्यते । वीप्सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विवचनम् । वृक्षं वृक्षं सिञ्चति । ग्रामो २ रमणीयः । गृहे २ ऽश्वाः । योद्धाः २ क्षत्रियः । २० तथा रूपं २ पश्यति । शुक्लं शुक्लमानय क्रियां क्रियामारभते । उपचरितभेदस्यापि भवति । खिन्नः खिन्नो विश्राम्यति । क्षीणः क्षीणः पयः पिबति । व्यापकधर्मस्यापि व्याप्येनाभेदोपचारात् भेदे सति व्यापकान्तरापेक्षायां वीप्सा भवति । स एवान्योन्यः सम्पद्यते नवो नवो भवति जायमान इति । आढ्यतरं आढ्यतरमानय । अत्र द्विवचनात् प्रागातिशयिकः । वीप्सायामिति किम् ? वृक्षं सिञ्चति । जात्येकशेषतरेतरयोगक्रमाभिधानेषु सत्यामपि व्याप्ती यथोक्तलक्षणवीप्साया अभावात् न २५ भवति द्विवचनम् । तथाहि सम्पन्नो यवः सम्पन्ना यवा इति । जातेरेकत्वाद्बह्वाभिधानं नास्ति । अस्मिन् वने वृक्षाः शोभना इत्येकशेषेसाकल्येन व्याप्तिर्नास्ति । तथाहि कतिपयेष्वपि वृक्षेषु शोभनेष्वयं प्रयोगो भवति । एवमितरेतरयोगेऽपि । अस्मिन् वने धवखदिरपलाशाः शोभना इति न वीप्सा । तथा अस्मिन् वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमाभिधाने साकल्येनापि व्याप्तौ यौगपद्याभावान भवति । अस्मिन् वने सर्वे वृक्षाः शोभना इत्यत्र तु सर्वशब्देन वीप्सार्थाभिधानान्न भवति । ३० तथा तद्धितसमासाभ्याम्-तद्धितेन तावत्, द्वौ द्वौ पादौ भुङ्क्ते द्विपदिकां भुङ्क्ते । अत्र वीप्साया अकल्प्रत्ययेनोक्तत्वाहिर्वचनं न भवति । तथाहि 'सङ्खथादेः पादादिभ्यो दानदण्डे चाकलू लुक च' (७।२।१५२) सङ्ख्यायाः प्रकृत्याद्यवयवात्परे ये पदादयस्तदन्तान्नाम्रो दाने दण्डे चकाराद्वीप्सायां विषयेऽकल्प्रत्ययः स्यात् । तत्सन्नियोगे च प्रकृतेरन्तस्य लुक् स्यात् । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति त्रिपदिकां ददाति । द्वे शते व्यवसृजति द्विशतिका व्यवसृजति ।३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org