________________
९७४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुउच्यते । यङ् स्वार्थिकत्वात् प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये समर्थो द्योतयितुमिति तदभिव्यक्तये द्विवचनं नापेक्ष्यते हिस्वादयः कर्तृकर्मभावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये द्योतयितुमिति तद्वद्योतनाय द्विवचनमपेक्षन्ते इति । ननु इह कस्मात् ख्णम् न भवति । यदयं पुनः पुनर्भुक्त्वा ब्रजयधीते एव ततः परम् । आमीक्ष्ण्यस्य स्वशब्देनैवोक्तत्वात् । क्त्वापि तर्हि न ५प्राप्नोति । माभूदभीक्ष्ण्ये प्राकाले भविष्यति । आमीक्ष्ण्यव्यक्तये द्विवचनमिति । अत्रैवं सूत्रपद्धतिः । भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमयादेः (७।४।७३) क्रियायाः साकल्यमवयवक्रियाणां कारूयं फलातिरेको वा भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । क्रियान्तरैरव्यवधानमविच्छेदः । एषु द्योत्येषु यत्पदं वाक्यं वा वर्तते । तत्तमबादिभ्यः प्रागेव द्विरुच्यते । भृशे लुनीहि लुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवायमधीते । आमीक्ष्ण्ये, भोज २ भुक्त्वा २ ब्रजति । अविच्छेदे, पचति १०२ अधीते २ । भृशादयश्व क्रियाधर्मा इति क्रियापदमेवात्र सम्बध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायाशादियोगे द्विर्वचनं भवति । मन्दं मन्दं चलति । यदा तु क्रियारूपता न विवक्ष्यते तदा 'नवा गुणः सदृशेरित्' (७।४।८६) इति द्विवचनम् । मन्दं मन्दं तुदति । एध्विति किम् ? लुनीहि । भुक्त्वा ब्रजति । पचति । भृशाभीक्ष्ण्ययोर्यङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा तु भृशार्थे यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तयेद्विवचनम् । पापच्यते २ इति । यदा तु तत्प्रतिपादनाय पञ्चमी विधीयते तदा १५ तस्या द्विर्वचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्यम् । क्त्वाख्णमोरिवेति द्विवचनमपि भवति । पापचख २ । इति । प्राक्तमबादेरिति किम् ? पचति पचतितमां, तराम् । अत्र तमबादेरातिशायिकात् पूर्वमेव द्विर्वचनं पश्चात्तमबादिः । अन्यथा ह्यनियमः स्यात् । 'नानावधारणे' (७।४।७४) नानाभूतानां भेदेनेयत्तापरिच्छेदो नानावधारणम् । तस्मिन् यच्छब्दरूपं तद्विरुच्यते । योगविभागात्प्राक् तमबादेरिति नानुवर्तते । अस्मात्कार्षापणादिह भवद्भयां मापं २ देहि । प्रत्येक माषमात्रं देहि २० नाधिकमित्यर्थः । द्वौ द्वौ देहि, त्रीन् २ देहि । 'आधिक्यानुपू] (७।४।७५) आधिक्यं
प्रकर्षः । आनुपूऱ्या क्रमानुल्लङ्घनम् एतयोर्वर्तमानं शब्दरूपं द्विरुच्यते । आधिक्ये, नमो नमः, अधिकं नम इत्यर्थः । कन्या दर्शनीया २, अहो दर्शनीया २, मह्यं रोचते २, एष तवाञ्जलिः . २, मह्यं रोचतेतराम् २ । अत्र प्रागातिशयिकः पश्चात् द्वित्वम् । आनुपूर्ये, मूले मूले स्थूलाः । अग्रे अग्रे
सूक्ष्माः । ज्येष्ठं ज्येष्ठमनुप्रवेशय । कनिष्ठं कनिष्ठमासय । मूलाद्यानुपूर्येणैषां स्थौल्यादय इत्यर्थः । २५ अग्रमध्यमूलानि त्रयो भागाः तत्रैकमेव मुख्यमयं मूलं च । अन्येषां तु भागानामपेक्षा
कृतोऽप्रमूलव्यपदेशः । अधःसन्निविष्टमपेक्ष्याग्रव्यपदेशः । उपरिसन्निविष्टमपेक्ष्य मूलव्यपदेशः । न चैकरूपं भागानां स्थौल्यं सौक्ष्म्यं वा । किं तर्हि ? यथा मूलमुपचीयते स्थौल्यम् । यथानं च सौक्षम्यापचय इति वीप्सा नास्ति । एवं ज्येष्ठत्व कनिष्ठत्वयोरप्यापेक्षिकत्वाद्वीप्सा नास्तीति वचनम् । 'डतरडतमौ समानां स्त्रीभावप्रश्ने' (७।४।७६) समानां केनचिद्गुणेन तुल्यतया सम्प्रअधारितानां स्त्रीलिङ्गस्य भावस्य प्रश्ने वर्तमानं डतरडतमान्तं द्विरुच्यते । उभाविमावाढ्यौ कतरा कतरा
नयोराढ्यता । किं दैवकृता उत पौरुपकृता वेत्यर्थः । कतमा कतमा अनयोराढ्यता । किं साधनसम्बन्धकृता उतान्यसम्बन्धकृता आहोखिदुभयसम्बन्धकृतेत्यर्थः । एवं सर्वे इमे आढ्याः कतरा २ एषामाढ्यता । यतरा २ एषां विभूतिः । ततरा २ कथ्यताम् । यतमा २ सम्पत् ततमा २ कथ्यताम् । डतरडतमाविति किम् ? उभाविमौ आढ्यौ काऽनयोराध्यता । समानामिति किम् ? आयोऽयं ३५ कतरास्याढ्यता कतमास्याव्यता । स्त्रीग्रहणं किम् ? उभाविमौ लक्ष्मीवन्तौ कतरानयोलक्ष्मीः कतमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org