________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां क्त्वाप्रत्ययाधिकारः रुणमश्च ९७३ वा स्यात् । अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । अपमित्य याचते । अपमातुं प्रतिदातुं याचते इत्यर्थः ॥ १९९ ॥
'निमी.' निमील्यादिभ्य इत्यादि निमील्यादीनां समानकालार्थों मेङस्तु परकालार्थ आरम्भः । स्वभावान्मे व्यतिहारे वर्तते । अन्ये धातवो व्यतिहारविवक्षायां व्यतिप्रयोगेऽव्यतिप्रयोगे भवन्ति । अयं केवलोऽपीति नान्यस्य व्यतिहारग्रहणं विशेषकं कर्तव्यमित्यर्थः । अक्षिणी निमील्येति ।५ निमीलयन्नित्यर्थः । अन्तर्भूतण्यर्थः । साक्षाण्णिगन्तो वा । अन्यथा तुल्यकर्तृकत्वं न सङ्गच्छते । एवमुत्तरत्रापि । मुखं व्यादायेति । एवं प्रादौ प्रसार्य पतति । दन्तान् प्रकाश्य जल्पति । शिशुरयं मातरं भक्षयित्वोपजातः । मे अपमाय अपमित्य याचते । अपमातुं प्रतिदातुं याचते इत्यर्थः । पूर्व ह्यसौ याचते पश्चादपमयते इति । याचेस्तु पूर्वकालेऽपि त्वा न भवति । मेङः परभाविन्या क्त्वया याचिप्राकालस्योक्तत्वात् पक्षे याचित्वा । अपमयते अपमातुं याचते । तुल्यकर्तृक इति चैत्रस्याक्षि-१० निमीलने मैत्रो हसति । चैत्रस्यापमाने मैत्रो याचते ॥ १९९ ॥ सूत्रम्
निषेधेऽलंखल्वोः क्त्वा ॥ २००॥ [सि० ५।४।४४] निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः क्त्वा वा स्यात् । अलंकृत्वा खलुकृत्वा ॥ २०० ॥
'निषे०' खलु कृत्वेति । अलंकृत्वा खलुकृत्वा, न कर्त्तव्यमित्यर्थः । पक्षे यथाप्राप्तं अलं रोदनेन अलं रुदितेन अलं रुदितम् । क्तवान्तयोग एव खलुशब्दो निषेधवाचीति पक्षे खलुशब्दो नोदा-१५ हियते । अन्ये तु खलु कृतेन खलु भोजनेन । खलु भोजनमित्यप्युदाहरन्ति । निषेध इति किम् ? अलंकारः स्त्रियाः। सिद्धं खलु । अलंखल्वोरिति किम् ? माकारि भवता ॥ २००॥
परावरे ॥ २०१॥ [सि० ५।४।४५] अस्मिन् गम्ये क्त्वा वा स्यात् । अतीत्य अप्राप्य नदी गिरिः ॥२०१॥ 'परा०' अस्मिन् इति परे अवरे च गम्यमाने धातोः क्त्वा वा स्यात् । अतीत्य नदी गिरिरिति २० नद्याः परो गिरिरित्यर्थः । बाल्यमतिक्रम्य यौवनम् । अवरे, अप्राप्य नदी गिरिः । नद्या अर्वाग् गिरिरित्यर्थः । अप्राप्य यौवनं बाल्यम् । नदीपर्वतयोर्खाल्ययौवनयोर्वा परावरत्वमानं प्रतीयते । अस्तिप्राप्यते इति वा न द्वितीया क्रियेति । तुल्यकर्तृकक्रियान्तराभावात् । 'प्राक्काले' (५।४।४७) इति न सिद्ध्यतीति वचनम् । वाधिकाराद्यथाप्राप्तम् , नद्यतिक्रमेण नद्यप्राप्त्या वा गिरिः ॥ २०१॥ अथ स्वातुमम् भावे इत्यत्र प्रक्रान्तं रुणम् प्रत्ययं दर्शयति । सूत्रम्
ख्णम् चाभीक्ष्ण्ये ॥ २०२ ॥ [सि० ५।४।४८] आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राकालेऽर्थे धातोः रुणम् क्त्वा च स्यात् । भोजं भोज याति । भुक्त्वा भुक्त्वा ब्रजति । 'घटादे०' (४।२।२२४) इति दीघे, घाटं २ घटं २ । आभीक्ष्ण्यव्यक्तये द्विवचनम् ॥ २०२॥
'रुणम्' आमीक्ष्ण्ये इति । आमीक्ष्ण्यविशिष्टे प्राकालेऽर्थे वर्तमानाद्धातोः रुणम् स्यादित्यर्थः ।३० भोज २ यातीति । एवं पायं २ पीत्वा २ गच्छति । अग्रे भोज २ व्रजति । अग्रे भुक्त्वा २ ब्रजति । अत्र क्त्वाख्णमोहि स्वादिवत्प्रकृत्यर्थोपाधिद्योतने सामर्थ्य नास्तीत्याभीक्ष्ण्याभिव्यक्तये द्विर्वचनं स्यात् । ननु भृशाभीक्ष्ण्ययोर्यङपि विधीयते । न तु तत्र द्विर्वचनमिह तु द्विर्वचनमित्यत्र को हेतुः १३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org