________________
९७२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'अन' प्रदायेति । एवमुचैःकृत्य नानाकृत्य । *अकृत्वेति । एवं परमकृत्वा । अनब इति नञ्सदृशमव्ययं गृह्यते इतीह नबोऽनव्ययाच्च न भवति । उत्तरपदस्थेत्येव । अलङ्कृत्वा ।। १९४ ॥ अनोपयोगिसूत्राण्याह । सूत्रम्
लघोर्यपि ॥ १९५॥ [सि०४।३।८६ ] ५ लघोः परस्य णेर्यप्यय् स्यात् । प्रशमय्य ॥ १९५ ॥
'लघो' प्रशमय्येति । एवं प्रबेभिदय्य प्रगणय्य' । प्रबेभिद्यमानं प्रयुङ्क्ते यङन्ताणिग् न यङ्लुबन्तात् । 'अतः' (४।३।८२) इत्यलोपे 'योऽशिति' (४।३।८०) यलुप् अस्य स्थानित्वाद्गुणाभावः । प्रबेभिदनं पूर्वम् । यङ्लुबन्ताद्धि णिगि गुणः स्यात् । 'न वृद्धिश्च' इति तु नोपतिष्ठते । यङः पूर्व
लोपात् । वचनसामर्थ्यादेकेन वर्णेन व्यवधानमाश्रीयते, न तु भूतपूर्वन्यायोऽत इत्यकरणात् । ननु १० वचनादेकवर्णव्यवधानं तदाश्रीयते यदाऽव्यवहितो न सम्भवति । अत्र तु गणय्येत्यादौ चुराद्यदन्तेषु
प्रबेभिय्येत्यादौ च योऽकारलोपे भूतपूर्वगत्याऽव्यवहितः सम्भवतीत्यत्राह अित इत्यकरणादिति । लघोरिति किम् ? प्रतिपाद्य गतः ॥ १९५ ॥ सूत्रम् ।
वाऽनोः ॥ १९६ ॥ [सि० ४।३।८७] आमोतेः परस्य णेर्यप्यय्वा स्यात् । प्रापय्य प्राप्य । 'मेडो वा मित्' (४।३।८८) यपि । १५अपमित्य अपमाय । 'क्षेः क्षी' (४।३।८९) प्रक्षीय । 'यदि चादो जग्ध्' (४।४।१६) प्रजग्ध्य ॥ १९६ ॥
'वा' प्राप्येति । पक्षे 'णेरनिटि' (४।३।८३ ) इति लुक् । निर्देशात् इङादेशस्य न स्यात् । अध्याप्य गतः । णौ क्रीजीङः (४।२।१०) इतीङ आत्वे प्राप्ते च रूपम् । 'आकृण लम्भने' इत्यस्यापीच्छन्त्यन्ये । 'मेङो०' सूत्रं स्पष्टम् । 'क्षेः' निरनुबन्धनिर्देशात् क्षिषर हिंसायामित्यस्य २० न भवति । प्रक्षित्य । अस्यापि ग्रहणमित्यन्ये । 'यपि चादो जग्ध' इति स्पष्टम् । प्राग् व्याख्यातं च (पृ० ८७३)॥ १९६ ॥ सूत्रम्
यपि ॥ १९७॥ [सि० ४।२।५६ ] यम्यादीनां यपि लुक् स्यात् । प्रहत्य ॥ १९७ ॥
'यपि यम्यादीनामिति । यमिरमिनमिगमिहनिमनिवनतितनादीनामित्यर्थः । एषामन्तस्य यपि २५लुक् स्यात् । 'वामः' (४।२।५७) इति वचनान्तानान्नामेवायं विधिः । प्रहत्येति । एवं प्रमत्य । वनति प्रवत्य । तनादि प्रतत्य प्रसत्य प्रक्षत्य । यपीति किम् ? हन्यते ॥ १९७ ॥ सूत्रम्
वाऽमः ॥ १९८ ॥ [सि० ४।२।५७ ] यम्यादीनाममन्तानां यपि वा लुक् । प्रयत्य । प्रयम्य ॥ १९८॥
'वा' प्रयम्येति । एवं बिरत्य विरम्य, प्रणय प्रणम्य, आगत्य आगम्य । एषामित्येव । उपशम्य ३०॥ १९८ ॥ सूत्रम्
निमील्यादिमेङस्तुल्यकर्तृके ॥ १९९ ॥ [सि० ५।४।४६] ३२ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तद्वृत्तिभ्यो निमील्यादिभ्यो मेङश्च धातोः सम्बन्धे त्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org