________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां त्वापत्ययाधिकारः ९७१ __ 'स्कन्द०' स्यन्त्वा इति । एवं प्रस्कन्ध प्रस्यन्ध । केचित् प्रस्कद्य प्रस्ययेति यपः कित्त्वमिच्छति, तन्मतसङ्ग्रहार्थ तक्त्वेति द्वितकारो निर्देशः, तकारादिः क्त्वा इत्यर्थः । अनिडर्थ वचनम् ; सेटि तु पूर्वसूत्रेण स्यन्दित्वेत्येव भवति ॥ १९० ॥ सूत्रम् ।
क्षुधक्लिशकुषगुधमृडमृदवदवसः ॥ १९१ ॥ [सि० ४॥३॥३१ ] एषामष्टानां सेट् क्त्वा कित् स्यात् । 'क्षुधवस'० (४।४।४३) इतीटि क्षुधित्वा उदित्वा ५ उषित्वा । रुिदविदेति क्वः कित्त्वे, रुदित्वा मुषित्वा गृहीत्वा सुप्त्वा पृष्ट्वा । वौ व्यञ्जनादेरिति वा कित्त्वे, द्युतित्वा द्योतित्वा ।। १९१ ॥
'क्षुध०' नेति निवृत्तम् । तत आह । किद्वत्स्यादिति । क्षुधित्वेति एवं क्लिशित्वा कुषित्वा मुषित्वा मृडित्वा मृदित्वा उदित्वा । उषित्वेति क्त्वः कित्त्वात् यजादिवचेरिति वृत् । क्षुधेर्नेच्छन्त्यन्ये । क्त्वेति प्रतिषेधे 'वौ व्यञ्जनादेः०' (४।३।२५) इति विकल्पे च प्राप्ते वचनम् । रुिदविदेतीति ।१० 'रुदविदमुषग्रहखपप्रच्छः सन् च' (४।३।३२) सेडिति निवृत्तम् । एभ्यः परः सन् क्त्वा च किद्वद्भवतः । रुदविदमुषां 'वौ व्यञ्जनादे०' (४।३।२५) इति विकल्पे आहेस्तु 'क्त्वा' (४।३।२९) इति प्रतिषेधे प्राप्ते वचनम् । स्वपिप्रच्छयोः सन्नर्थमेव । क्त्वा हि किदेव । 'वौ व्यञ्जनादे'रिति वार्तिकं स्पष्टम् । प्राग् व्याख्यातम् (पृष्ठ ८७६) ॥ १९१ ॥ सूत्रम्
जनशो न्युपान्त्ये तादिः क्त्वा ॥ १९२ ॥ [सि० ४।३।२३] १५ जन्तानशेश्च न्युपान्त्ये सति तादिः क्त्वा किद्वद्वा स्यात् । रक्त्वा रक्त्वा । नष्वा नंष्ट्वा ॥१९२॥ 'जन' रङ्क्त्वा इति । एवं भक्त्वा भक्त्वा । मक्त्वा २ । 'मस्जेः सः' (४।४।११०) इति नः । नंष्ट्वेति । 'नशो धुटि' (४।४।१०९) इति नः । नीति किम् ? भुक्त्वा इष्ट्वा । उपान्त्य इति किम् ? निक्त्वा । क्त्वेति किम् ? भक्ता नंष्टा । तादिरिति किम् ? विभज्य । अञ्जित्वा ॥ १९२ ।।
ऋत्तृषमृषकृशवञ्चल्लुञ्चथफः सेट् ॥ १९३ ॥ [सि० ४।३।२४] २० यथासम्भवं न्युपान्त्ये सत्येभ्यः सेट् क्त्वा किद्वद्वा स्यात् । ऋतित्वा अर्तित्वा तृषित्वा तर्षित्वा । मृषित्वा मर्षित्वा । कृशित्वा कर्शित्वा । वचित्वा वञ्चित्वा । लुचित्वा लुश्चित्वा । श्लथित्वा श्लन्थित्वा ग्रथित्वा ग्रन्थित्वा । गुफित्वा गुम्फित्वा ॥ १९३ ॥
'ऋत्त०' यथासम्भवमिति । न्युपान्त्य इति विशेषणं थफान्तानां नान्येषां सम्भवव्यभिचाराभावात् । एभ्य इति 'ऋत घृणागतिस्पर्द्धषु' 'तृषच् पिपासायाम्' 'मृषीच तितिक्षायाम्' 'कृशच २५ तनुत्वे' 'वश्नू चञ्चू त्वञ्चू० लुच् अपनयने' 'प्रन्थ ग्रन्थश् सन्दर्भे' 'गुफ गुफत् ग्रन्थने' 'रिफत् रिंफत् हिंसायाम्' इति । गुम्फित्वेति । एवं ऋफित्वा ऋम्फित्वा । न्युपान्त्य इत्येव । कुथ् कोथित्वा । पुथ् पोथित्वा । रिफ् रेफित्वा । क्त्वेत्येव प्रथितः २ । सेडिति किम् ? वञ्चू वंक्त्वा । मृषू, मृष्ट्वा । ऊदित्वात् क्त्वायां वेटौ । विहितविशेषणात् ऋफित्वेत्यत्र नलोपेऽपि कित्वाद्गुणो न भवति । क्त्वेत्यनेन कित्त्वप्रतिषेधे प्राप्ते विकल्पार्थ वचनम् ॥ १९३ ॥ अथ क्त्वाप्रत्ययस्य कार्यविशेषमाह । सूत्रम्
अनञः क्त्वो यप् ॥ १९४ ॥ [सि० ३।२।१५४ ] नञ्चर्जात्पूर्वपदात्परं यदुत्तरपदं तदवयवस्य त्वो यप् स्यात् । प्रकृत्य प्रदाय । अनज इति किम् ? *अकृत्वा ॥ १९४ ॥
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org