________________
९७०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुलूत्वा । कित इत्येव । यविता लविता । 'ईय॑ञ्जनेऽयपि' (४।३।९७) इत्यस्यायमर्थः । गापास्थासादामाहाकां यपवर्जिते क्रिति अशिति व्यञ्जनादौ प्रत्यये परे ई: स्यादिति । देति दासंज्ञाधातवः ॥ १८७ ॥ सूत्रम्
जृनश्चः क्तवः ॥ १८८॥ [सि० ४४१] ५ आभ्यां परस्य क्त्व इट स्यात् । जरित्वा २ व्रश्चित्वा । 'ऊदितो वा' (४।४।४२) इट् , दान्त्वा दमित्वा । 'क्षुधवस्तेषाम्' (४।४।४३) इतीटि, क्षुधित्वा उपित्वा । *लुभ्यश्चेरिति, लुभित्वा अश्चित्वा । 'पूक्लिशिभ्यो नवा' (४।४।४५) इटि वेद, पूत्वा पवित्वा । क्लिष्ट्वा क्लिशित्वा ॥ १८८॥
'जु०' 'घृतो नवानाशी:०' (४।४।३५) इति दीर्घविकल्पे जरीत्वा जरित्वा इति रूपद्वयम् । ब्रश्चित्वेति १० क्त्वा (४।३।३९) इत्यनेनाकित्त्वान्न वृत् । ज इति क्रैयादिकस्य ग्रहणम् । देवादिकस्य तु सानुबन्धस्य
जीवा॑ । अस्यैवेच्छन्त्यन्ये । ज़ इत्यस्य 'ऋवर्णश्रयूणुग'० (४।४।५८) इति प्रतिषेधे श्रौदित्त्वाद्विकल्पे प्राप्ते वचनम् । सूत्रम् 'ऊदि० (४।४।४२) स्पष्टम् । दान्त्वा दमित्वा इति । एवं शान्त्वा शमित्वा । तान्त्वा तमित्वा । द्यूत्वा देवित्वा । स्यूत्वा सेवित्वा। यमूसिध्यत्योरप्राप्ते शेषाणां प्राप्ते विभाषा । 'क्षुधवस०' (४।४।४३) क्षुधवस इति आभ्यां परेषां क्तक्तवतुक्त्वामिट स्यादिति । १५ यङ्लुपि वावसित्वा । यङ्लुपि नेच्छन्त्यन्ये । वावस्त्वा । गणनिर्देशात् 'यजादिवचे' (४।१।७९)
इति न स्वृत् । वसिति वसतेग्रहणम् । वस्तेस्त्विडस्त्येव । *लुभ्यश्चेरिति । 'लुभ्यञ्चेर्विमोहाचे' (४।४।४४) विमोहेऽर्चायां चार्थे वर्तमानाभ्यां क्तक्तवतुक्त्वामिट् स्यात् । लुभेः क्त्वि 'सहलुभ०' इत्यादिनाश्वेश्च 'ऊदितो वा' (४।४।४२) इति विकल्पे प्राप्ते वचनम् । लुभित्वा लोभित्वा केशान् गतः ।
गुरूनञ्चित्वा स्तौति । विमोहाच इति किम् ? लुब्ध्वा लुभित्वा लोभित्वा । 'वौ व्यञ्जनादे.' २०(४।३।२५) इति सेटः क्त्वो वा कित्त्वम् । अत्त्वा अश्चित्वा कूपादुदकम् । सूत्रम् 'पू' (४।४।४५) पूक्लिशिभ्यां परेषां तक्तवतुक्त्वामिड्वा स्यात् । पूङो ङकारः पूगनिवृत्त्यर्थः । बहुवचनं क्लिश्यतिक्लिनात्योहणार्थम् । पूङ 'उवर्णात्' इति नित्यं निषेधे प्राप्ते क्लिश्यतेनित्यमिटि प्राप्ते क्लिनातेश्वोदित्त्वात् क्त्वायां विकल्पे सिद्धेऽपि तयोर्नित्यं प्राप्ते प्रतिषेधे विकल्पार्थं वचनम् । आदिशब्दात्
"सहलुभेच्छरुषरिषस्तादेः' (४।४।४६) एभ्यः परस्य तकारादेस्त्याद्यशित आदिरिडा । सोढा २५ सहित्वा । लुब्ध्वा लुभित्वा । इट्वा एषित्वा । इच्छेति निर्देशात् 'इषत् इच्छायाम्' इत्यस्य ग्रहणम् । 'इषच् गतौ' 'इषश् आभीक्ष्ण्ये' इत्यनयोस्तु नित्यमिट् । प्रेषिता प्रेषितुं प्रेषितव्यम् । केचित् इषशोऽपि विकल्पमाहुः रुधा रुषित्वा २ । रिष्वा २ ॥ १८८ ॥ सूत्रम्
क्त्वा ॥ १८९ ॥[सि०४३२९] धातोः त्वा सेट् किद्वन्न स्यात् । देवित्वा ॥ १८९॥ ३० तवा' देवित्वा इति । एवं सेवित्वा वर्त्तित्वा वर्द्धित्वा भ्रंशित्वा ध्वंसित्वा ब्रश्चित्वा । कथं कुटत्
कुटित्वा ? 'कुटादेद्विदक्षिणत' (४।३।१७) इति ङिद्वद्भावात् । सेडियेव कृत्वा इष्ट्वा शान्त्वा ॥ १८९ ॥ सूत्रम्
स्कन्दस्यन्दः ॥ १९०॥ [सि० ४।३।३०] ३४ आभ्यां त्वा किद्वन्न सात् । स्कन्त्वा स्वन्त्वा ॥ १९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org