________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां क्वाप्रत्ययाधिकारः ९६९ शासियुधिशिधृषिमृषातोऽनः ॥ १८६ ॥ [सि० ५।३१४१] कृच्छ्राकृच्छ्रार्थदुःखीषत्पूर्वेभ्य एभ्य आदन्ताच धातोरनः स्यात् । दुःशासनः सुशासनः ईपच्छासनः । दुर्योधनः ३ । दुर्दर्शनः ३ । दुर्धर्षणः ३ । दुर्मर्षणः ३ । दुरुत्थानम् ३॥१८६॥
'शासि.' दुःखेन शिष्यते इति दुःशासनः । सुखेन शिष्यते सुशासनः । ईषत् अनायासेन ५ शिष्यते ईषच्छासनः । एवं दुर्योधनः सुयोधनः ईषद्योधनः इति रूपत्रयम् । त्रिकेणाङ्केन सर्वत्र ज्ञेयम् । आदन्त; दुःखेन उत्थीयते दुरुत्थानं भवता । सूत्थानं ईषदुत्थानं । दुष्पानं पयो भवता । सुपानं ईषत्पानम् । आदन्तवर्जितेभ्यः केचिद्विकल्पमिच्छन्ति । तन्मते दुःशासः दुर्दर्शः दुर्धर्षः दुर्मर्षः इत्याद्यपि भवति । कथमीषद्दरिद्रः ? आनप्रत्ययस्य विषयेप्याकारलोपेनादन्तत्वाभावात् खलेव । ननु धातोरकर्मकत्वाद्भावे प्रत्यये कथमत्र पुंस्त्वम् । दुरुत्थानमित्यादिवन्नपुंसकत्वप्राप्तिः ।१० सत्यम् । 'कालाध्व०' (२।२।२३) इत्यनेन मासादेः कर्मत्वे कर्मणि, खल्, न तु भावे, ततो यत्र मासादौ दरिदैर्भूयते स ईषद्दरिद्र उच्यते ॥ १८६॥ अथ क्त्वाप्रत्ययमभिधातुं प्रक्रमते । सूत्रम्
प्राक्काले ॥ १८७॥ [सि० ५।४।४७] परकालेन धात्वर्थेन तुल्यकर्तके प्राकालेऽर्थे वर्तमानाद्धातोः सम्बन्धे क्त्वा वा स्यात् ।१५ आसित्वा भुते । 'हाको हि क्त्वि:' (१४।१४) हित्वा । 'उवर्णात्' (४।४।५९) इतीइ निषेधे भूत्वा । 'ईव्यञ्जनेऽयपि' (४३३९७) इति पीत्वा गीत्वा । यपि तु निपाय ॥ १८७॥
'प्रा०' आसित्वा भुङ्क्ते इति । अत्रासिक्रियाया वर्तमानत्वेऽपि भुजिक्रियापेक्षया प्राक्काल्यम् । अत एव स्वाविकल्पपक्षे आस्यते भोक्तुमित्यत्र वर्तमाना । एवं भुक्त्वा ब्रजति । भुक्त्वा पुनर्भुते ।२० स्नात्वा भूत्वा पीत्वा व्रजति । पक्षे आस्यते भोक्तमित्यपि भवति । तुल्यकर्तृक इत्येव । भुक्तवति गुरौ शिष्यो ब्रजति । प्राकाल इति किम् ? भुज्यते पीयते वानेन । अथ यदनेन भुज्यते ततोऽयं पचति । यदनेनाधीयते ततोऽयं शेते इत्यत्र कथं स्वा न भवति । उच्यते । यत्र यच्छब्देन सह ततः शब्दः प्रयुज्यते तत्र ततःशब्देनैव प्राकालताभिधीयते इत्युक्तार्थत्वान्न भवति । यदनेन भुक्त्वा गम्यते ततोऽयमधीयते इत्यत्र भोजनगमनयोः क्रमे स्वा, गमनाध्ययनयोस्तु ततः शब्देनैव २५ क्रमस्याभिधानाद्गमेन भवति।
अथात्र यथास्थानमुपयोगिसूत्राण्याह । 'हा' (४।४।१४) ओहांक् इत्यस्य तादौ किति क्वाप्रत्यये परे हिः स्यात् । ककारो हानिवृत्त्यर्थः । हात्वा । क्वि इति किम् ? हीनः । तीत्येव । प्रहाय । यङ्लुपि जहित्वा । द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । जाहित्वा उभयत्रेटि आतो लुक् । एवं धागोऽपि । 'धागः' (४।४।१५) इति सूत्रेण हिरादेशः । हित्वा । गकारः धेनिवृत्त्यर्थः । धीत्वा । ३० तीत्येव । प्रधाय । यलुपि दाधित्वा । 'दत्' (४।४।१०) इति सूत्रे धावर्जितस्य दासंज्ञस्य तादौ किति इत्यादेशे डुदांग्क् दत्वा । 'दासोमास्थ इ.' (१।४।११) इति एषां तादौ किति इत्वे दित्वा सित्वा मित्वा स्थित्वा । 'छाशोळ' (४।४।१२) इति छित्वा छात्वा । शित्वा शात्वा । उवर्णादित्यादिवार्तिकस्यायमर्थः । उवर्णान्तादेकखराद्धातोर्विहितस्य कित इड् न स्यात् । युत्वा ३४
है. प्रका० उत्त० १२२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org