________________
९६८ . महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुकर्तरि समानयन्ति । खमते तु कर्मकर्तृभावादिविशेषानभिधानात् सामान्येन भवन्ति.। नन्वेवं 'भवतेः सिज्लुपि' (४।३।१२) 'न कवतेयङः' (४।१।४७) इत्यादौ शव कथं भविष्यति । तत्र हि कर्तृविहिते शितीत्युक्तमित्यत्रोच्यते । भवतेः सिजलुपीत्यादौ स्वरूपेऽपि सूत्रसामर्थ्यात् शत् न तु क्यः । पचतिर्वर्त्तते इत्यादी बाहुलकाद्भावेऽपि शव् क्याभावश्च ॥ १८४ ॥ सूत्रम् ५ दुःखीषतः कृच्छ्राकृच्छ्रार्थात् खल् ॥ १८५ ॥ [ सि० ५।३।१३९]
कृच्छ्रार्थादुरोऽकृच्छ्रार्थाभ्यां खीषद्यां च पराद्धातोः खल् स्यात् । दुःशयं त्वया । दुःकरः कटः । सुशयं सुकरः । ईपच्छयं ईषत्करः ॥ १८५ ॥
'दुःस्वी०' कृच्छं दुखम् । अकृच्छं सुखम् । खल् स्यादिति । कृत्यादीनामपवादः । तत्साप्यानाप्यात्' (पृष्ठ ८२८) इतिसूत्रप्रामाण्यात् सकर्मकाद्धातोरयं कर्मणि अकर्मकाच्च भावे इति। दुःखेन शय्यते १०इति दुःशयम । दुःखेन क्रियते इति दुष्करः कटः। सुखेन शय्यते इति सुशयम । सखेन क्रियते इति सुकरः कटः । ईषत् अनायासेन शय्यते इति ईषच्छयम् । ईषत् अनायासेन क्रियते इति ईषत्करः कटः । दुःस्वीषत इति किम् ? कृच्छ्रसाध्यः सुखसाध्यः । कृच्छ्राकृच्छ्रार्थादिति किम् ? ईषल्लभ्यं धनं कृपणात् अल्पमित्यर्थः । खकारः 'खित्यनव्ययात् (३।२।१११) इति मोऽन्तार्थः । लकारः खलाश्चेत्यत्र विशेषणार्थः । इह स्त्रीप्रत्ययात्प्रभृत्यसरूपविधेरभावात् स्पर्द्धऽलः स्त्रीप्रत्ययाः, स्त्रियास्तु खलनौ १५परत्वाद्भवतः । तत्र चयः जयः लवः यवः इत्यादावलोऽवकाशः, कृतिहृतिरित्यादौ स्त्रीप्रत्ययस्य, चितिः
स्तुतिरित्यादौ तूभयं प्राप्नोति । अलोऽविशेषेणाभिधानात् । तत्र परत्वात् स्त्रीप्रत्ययो भवति । तथा दुर्भेदः सुभेद इत्यादौ खलोऽवकाशः । अलस्तु पूर्व एव । दुश्चयं सुचयं दुर्लभं सुलभमित्यादौ तु परत्वात्खल् भवति । इध्मत्रश्चनः पलाशच्छेदनः इत्यादावनस्यावकाशः । अलस्तु पूर्वक एव । पलाशशातनो
अविलवन इत्यादौ तूभयप्राप्तौ परत्वादनो भवति । एवं हृतिः कृतिरित्यादौ स्त्रीप्रत्ययस्यावकाशः । दुर्भेदः २० सुभेद इत्यादौ खलः । दुर्भदा सुभेदा इत्यादौ तूभयप्राप्तौ परत्वात् खल् भवति । तथा इध्मव्रश्चनः पलाशच्छेदनः इत्यादावनस्यावकाशः । कृतिरित्यादौ स्त्रीप्रत्ययस्य, सक्तुधानी तिलपीडनीत्यादौ तूभयप्राप्तौ तु परत्वादनडेव भवति । अत्रायं विशेषः । 'व्यर्थे काप्याद्भूकृगः' (५।३।१४०) कृच्छ्राकृच्छ्रार्थेभ्यो दुःस्वीषयः पराभ्यां च्व्यर्थे वर्तमानाभ्यां कर्तृकर्मवाचिभ्यां शब्दाभ्यां पराभ्यां
यथासङ्ख्यं भूकृग्भ्यां परः खल् स्यात् । खानुबन्धबलात् कर्तृकर्मणोरानन्तर्ये, खानुबन्धो हि मागमार्थ २५ क्रियते । यदि चात्र कर्मकर्तृवाचिभ्यां परेभ्यो दुःस्वीषद्धयः पराभ्यामिति विपरीतो विशेषणविशेष्यभावः क्रियेत तदा कर्तृकर्मवाचिभ्यां दुरादिभिर्व्यवधानात् मोऽन्तो न स्यात् । दुःस्वीषझ्यस्तु अव्ययत्वान्नमागमप्राप्तिरिति । दुःखेनानाढ्येन भूयते दुराव्यंभवं भवता । सुखेनानाढ्येन भूयते स्वाव्यंभवं भवता ईषदाढ्यंभवं भवता । दुःखेनानाढ्यः आब्यः क्रियते दुराढ्यंकरो मैत्रो भवता । सुखेनानान्यः आन्यः क्रियते वाढ्यंकरश्चैत्रो भवता । ईषदाढ्यंकरश्चैत्रो भवता । सुखेनाकटः कटः ३०क्रियन्ते सुकटंकराणि वीरणानि । सुकरः कटो वीरणैरिति तु करणविवक्षा। व्यर्थ इति किम् ? . दुराव्येन भूयते खाड्येन भूयते ईषदाव्येन भूयते । आन्य एव सन् कञ्चिद्विशेषमापद्यते इत्यर्थः ।
एवं दुराढ्यः क्रियते इत्यादि । अभूतप्रादुर्भावेऽपि वा प्रकृतेरविवक्षणात् अर्थो नास्ति ३३॥ १८५ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org