________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां भविष्यति करणाधारयोः प्रत्ययाः ९६७ इति सिद्धे तोये प्रतिषेधार्थ वचनम् । रूपाविशेषाद् घोऽपि न स्यात् । 'आना' (५।३।१३६) आपूर्वान्नयतेः करणे पुन्नाम्नि घञ् निपात्यते । जालं चेद्वाच्यं स्यात् । आनायन्ति तेनानायो मत्स्यानां मृगाणां वा । आदिशब्दात् । 'खनो डडरेकेकवकघं च' (५।३।१३७) खनेः पुन्नान्नि करणाधारयोः ड डर इक इकवक घा एते पञ्च, चकारात् घञ् चेति षद प्रत्ययाः स्युः । आखायते आखन्यते वाऽनेनास्मिन् वा आखः आखरः आखनिकः आखनिकवकः आखनः आखान:५ ॥ १८१ ॥ सूत्रम् ।
गोचरसश्वरवहब्रजव्यजखलापणनिगमबकभगकषा
कषनिकषम् ॥ १८२ ॥[सि० ५।३।१३१ ] न्यायावायाध्यायोद्यावसंहारावहाराधार
दारजारम् ॥ १८३ ॥ [सि० ५॥३॥१३४] . एते घघञन्ता निपात्याः ॥ १८२ ॥ १८३ ॥ 'गोच.' एते शब्दाः करणाधारयोः पुन्नानि व्यञ्जनाद् घबिति प्राप्ते घप्रत्ययान्ता निपात्यन्ते । गावश्चरन्त्यस्मिन्निति गोचरो देशः । व्युत्पत्तिमानं चेदम् , विषयस्य तु संज्ञा । अनेकात्मकं वस्तु गोचरः सर्वविदाम् । सञ्चरन्तेऽनेन सञ्चरः । वहन्ति तेन वहः वृषस्कन्धदेशः । व्रजन्त्यस्मिन्निति ब्रजः । विपूर्वो जिः व्यजत्यनेन व्यजः । निपातनाद्वीभावाभावः । खलन्त्यस्मिन्निति खलः । एत्य पणाय-१५ न्त्यस्मिन्निति आपणः । निगच्छन्ति तत्रेति निगमः । वक्तीति बकः बाहुलकात्कर्तरि । निपचन्त्यनेन निपकः इति कश्चित् । भज्यतेऽनेनास्मिन् वा भागः । भगमिति तु बाहुलकात् क्लीवेऽपि घः । कषत्यस्मिन्निति कषः । एवमाकषः निकषः ।। १८२ ॥ सूत्रम्
'न्याया०' स्वरान्तार्थ आरंभः । एते इति एते शब्दाः *घघनन्ता इति गोचरादयो घान्ता न्यायादयश्च पुन्नाम्नि करणाधारयोरर्थे प्राप्ते घबन्ता निपात्यन्ते । निपूर्वस्येणो नीयतेऽनेनेति न्यायः ।२० एत्य वयन्ति वायन्ति तत्रेत्यावायः । अधीयतेऽनेनास्मिन् वाध्यायः । उद्युवन्ति तेन तस्मिन् वा उद्यावः । संहरन्ति तेन संहारः । अवहरन्ति तेन तस्मिन् वावहारः । आध्रियते तत्रेत्याधारः दीर्यते एभिरिति दाराः । जीर्यतेऽनेनेति जारः । दारयन्तीति दाराः । जरयतीति जारः इति कर्त्तरि केचिन्निपातयन्ति । ननु जार इत्यस्य 'कगेवनूजष०' (४।२।२५) इति हस्खत्वे प्राप्ते दीर्घार्थं निपातः क्रियताम् , दार इत्यस्य तु किं निपातनेन । सत्यम् । भयविवक्षायां दृधातोर्घटादित्वात् दरयतीति २५ यदा क्रियते तदापि दीर्घो मा भूदित्येवमर्थ निपातः॥ १८३ ॥ सूत्रम्
इकश्तिव स्वरूपार्थे ॥ १८४ ॥ [सि० ५।३।१३८] धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः क्रुधिः वेत्तिः भुजिः क्रियते पचतिः वर्तते ॥ १८४॥
'इकि०' भञ्जिरित्यत्र इप्रत्ययः । कुधिरित्यत्र किप्रत्ययः, कित्त्वाद्गुणाभावः । वेत्ति इत्यत्र रितव-३० प्रत्ययः । अत्र धातोः स्वरूपेऽभिधेये एते प्रत्ययाः भञ्जिरित्यादयः एवंस्वरूपा धातव इत्यर्थः । धातोरर्थे यथा; यजेरङ्गानि यज्ञस्याङ्गानि । भुजिः क्रियते भोजनं क्रियते इत्यर्थः । केचिदेतान् प्रत्ययान् ३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org