________________
९६६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुप्रपाविनौ अप्रपवनिः प्रपवनीयम् । भू प्रभवनम् प्रभूयमानं प्रभाविनौ अप्रभवनिः प्रभवनीयम् । भा प्रभानं प्रभायमानं प्रभायिनौ अप्रभानिः प्रभानीयम् । कम प्रकमनं प्रकममानं प्रकामिनौ अप्रकमनिः प्रकमनीयम् । गम कमवत् । प्याय् प्रप्यानः प्रप्यानवान् प्रप्यायनं प्रप्यायमानः प्रप्यायिनौ अप्रप्यायनिः प्रप्यायनीयम् । वेप प्रवेपनं प्रवेपमानं प्रवेपिनौ अप्रवेपनिः प्रवेपनीयम् । ण्यन्तेभ्योऽपि प्रख्या५पनं प्रभावना प्रभापना प्रकामना प्रगमना प्रप्यायना प्रवेपना । अण्यन्तेभ्यो नित्यं वेपो विकल्पेन ण्यन्तेभ्यश्च विकल्पेन प्राप्ते प्रतिषेधः । पूगो गकारः पवतेर्निवृत्त्यर्थः । तेन प्रपवणं प्रपूयमाणमित्यादि । ख्यातेर्णत्वमिति कश्चित् । प्रख्याणं प्रख्यायमाणम् । तथा 'देशेऽन्तरोऽयनहनः' (२।३।९१) अन्तःशब्दात्परस्यायनशब्दस्य हन्तेश्च सम्बन्धिनो नस्य देशेऽभिधेये णो न स्यात् । अन्तरय्यतेऽस्मिन्निति अन्तरयनो देशः । एवमन्तहननो देशः । देश इति किम् ? अन्तरयणं वर्तते । १० अन्तर्हणनं अन्तहण्यते । अन्तर्घणो देशे इति तु निपातनात् (५।३।३४)। अन्तर इति किम् ? प्रायणो प्रहणनो देशः । अयनहन इति किम् ? अन्तर्णमनो देशः ॥ १८० ॥ सूत्रम्
पुन्नाम्नि घः ॥ १८१ ॥ [सि० ५।३।१३०] धातोः करणाधारयोर्घः स्यात पुंसि । दन्तच्छदः । 'एकोपसर्गस्य च घे' (४।२।३४) इति हस्तः । आकरः । 'व्यञ्जनाद् घ' (५।३।१३२) घस्यापवादः । लेखः । रागः । १५ अवात्तृस्तृभ्याम्' (५।३।१३३) अवतारः । अवस्तारः । उदकोऽतोये (५।३।१३५) आनायो जाले (५।३।१३६ ) ॥ १८१ ॥
'पुन्ना ' पुंसो नाम इति संज्ञा, तत्र गम्यमाने करणाधारयोर्धातोर्घः स्यात् । करणे दन्तच्छद इति । अत्रोपयोगिसूत्रम् ‘एको०' (४।२।३४) एकोपसर्गपूर्वस्यानुपसर्गस्य च छदेर्घपरे णौ ह्रस्वः। प्रच्छाद्यतेऽनेनेति प्रच्छदः परिच्छदः उपच्छदः । छाद्यतेऽनेनेति च्छदः । सप्त च्छदाः अस्येति २० सप्तच्छदः । एकोपसर्गस्येति किम् ? समुपच्छादः । घ इति किम् ? प्रच्छादनम् । तनुच्छादनम् ।। एवं उरच्छदः प्लवः प्रणवः करः प्रत्ययः शरः। आधारे एत्य कुर्वन्त्यस्मिन्नित्याकरः । एवं आलवः आपवः भवः लवः विषयः भरः प्रहरः प्रसरः अवसरः । पुंग्रहणं किम् ? विचीयतेऽनयेति विचयनी । प्रधीयते विकारोऽस्मिन्निति प्रधानम् । नानीति किम् ? प्रहरणो दण्डः । बहुलाधिकारात् क्वचिन्न स्यात् । प्रसाधनः दोहनः । धकार 'एकोपसर्गस्य च घे' इत्यत्र विशेषणार्थः । सूत्रम् 'व्यञ्ज' २५ (५।३।१३२) अस्यायमर्थः । व्यञ्जनान्ताद्धातोः पुन्नाम्नि करणाधारे घञ् स्यात् । लेखः । राग इति ।
एवं विदन्त्यनेन विन्दति विन्दते वा वेदः । चेष्टतेऽनेन चेष्टी बलम् ? एत्य पचन्त्यस्मिन्निति पाकः उत्पूर्वादपि, नद्युत्तारः । आरामः बन्धः नेगः वेगः रङ्गः क्रमः प्रासादः अपामार्गः नीमार्गः । सूत्रम् "अवा०' (५।३।१३३) अवपूर्वाभ्यामाभ्यां करणाधारयोः पुन्नान्नि घञ् स्यात् । अवतरन्त्य
नेनास्मिन्वेत्यवतारः अवस्तृणन्त्यनेनास्मिन्निति वा अवस्तारः । बहुलाधिकारादसंज्ञायामपि । ३० अवतारो नद्याः । येन केनापि पथावतीर्यते स एवावतारो न तु कस्यापि संज्ञा । करणाधार इत्येव
अवतरः । केचित्तु संज्ञायामसंज्ञायां च भावेऽकर्तरि कारके च स्रो नित्यं तरतेस्तु विकल्पेन घनमिच्छन्ति । द्विवचनं करणाधार इति यथासङ्ख्यनिवृत्त्यर्थम् । 'उद०' (५।३।१३५) उत्पूर्वादञ्चतेः पुन्नाग्नि करणाधारयोर्घञ् निपात्यते । अतोये । तोयविषयश्चेद्धात्वर्थो न भवति । जलं चेत्तेन ३४ नोदच्यते इत्यर्थः । तैलोदङ्कः घृतोदकः । अतोय इति किम् ? उदकोश्चनः । व्यञ्जनान्ताद्' घन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org