________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां करणाधारयोः प्रत्ययाः ९६५
करणाधारे ॥ १८०॥ [सि० ५।३।१२९ ] अनयोरर्थयोर्धातोरनट् स्यात् । एषणी सक्तुधानी । 'रम्यादिभ्यः कर्तरि' (५।३।१२६) अनट् । रमणी । *क्वचिदनप्रत्ययसम्बधिनो नकारस्य यथायोगं णत्वम् वक्तव्यम् । प्रेङ्खणम् । प्रेङ्गणम् ॥१८॥
'कर' अनट् स्यादिति । घनाद्यपवादः । एषणीति । एवं लेखनी विचयनी । इध्मव्रश्चनः५ पलाशशातनः अविलवनः श्मश्रुकतनः। आधारे; सक्तुधानीति । एवं गोदोहनी । तिलपीडनी । शयनं आसनं अधिकरणं आस्थानम् । सूत्रम् 'रम्या०' (५।३।१२६) रमणीति । एवं नन्दनी ह्रादनी । इध्मव्रश्चनः । पलाशशातनः । बहुवचनं प्रयोगानुसरणार्थम् । अत्र विशेषः 'कारणम्' (५।३।१२७) कृगः कर्तर्यनट् वृद्धिश्च निपात्यते । करोतीति कारणम् । कर्तरीति किम् ? करणम् । 'भुजिपत्यादिभ्यः कर्मापादाने' (५।३।१२८) भुज्यादिभ्यः कर्मणि पत्यादिभ्यश्चापादानेऽनट् स्यात् ।१० भुज्यत इति भोजनम् । निरदन्तीति निरदनम् । आच्छादि, आच्छादनम् । अवस्रावि, अवस्रवत् । अधः पतत् प्रयुङ्क्ते णिगि अवस्राव्यते इति अवस्रावणम् । अवसिच , अवसेचनम् । अश् अशनम् । वस् , वस्यते इति वसनम् । आभृग् , आभरणम् । अपादाने; पत् पतत्यस्मादिति प्रपतनः । स्कन्दि प्रस्कन्दनः । अयोति प्रश्योतनः । स्तु, प्रस्तवणः । अष् निर्झरणः । धृ शङ्खोद्धरणः । दाग, अपादानम् । बहुवचनं प्रयोगानुसरणार्थम् । *कचिदित्यादि वार्तिकं स्पष्टम् । अत्र सूत्राण्येवम् ।१५ 'नाम्यादेरेव ने (२।३।८६) अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात्परस्य नागमे सति नाम्यादेरेव धातोः परस्य कृद्विषयस्य नकारस्य णो भवति । प्रेङ्क्षणम् प्रेङ्गणम् । प्रेक्षमाणः प्रेङ्गमाणः । श्रेणिौ प्रेङ्गिणौ । अप्रेवणिः अप्रेङ्गणिः । प्रेङ्खणीयं प्रेङ्गणीयम् । अन आन इन् अनि अनीया प्रयोजयन्ति । नाम्यादेरेव इति किम् ? प्रमङ्गनं प्रकम्पनम् । एवकार इष्टावधारणार्थः । न एव सति नाम्यादेरिति नियमे हि प्रेहणं प्रोणमित्यादौ 'स्वरात्' (२।३।८५) इत्यनेनापि णो न स्यात् । व्यञ्जनान्तादेवायं २० नियमः । ण्यन्तात्तु परत्वाद्विकल्पः । 'व्यञ्जनादे म्युपान्त्याद्वा' (२।३।८७) उक्तणत्वनिमित्तात्परो यो व्यञ्जनादि म्युपान्यो धातुस्ततः परस्य कृद्विषयस्य नकारस्य स्वरादुत्तरस्य णो वा स्यात् । प्रमेहणं प्रमेहनं प्रकोपणम् प्रकोपनं । प्रगुप्यमाणः प्रगुप्यमानः । प्रकोपिणौ प्रकोपिनौ । अप्रकोपणिः अप्रकोपनिः । प्रकोपणीयं प्रकोपनीयम् । व्यञ्जनादेरिति किम् ? प्रेहणं प्रोहणं । नाम्युपान्त्यादिति किम् ? प्रवपणं प्रवहणम् । स्वरादियेव । प्रभुनः । अदुरित्येव । दुर्मोहनः दुर्गृहनः । अलचटतवर्गशसान्तर २५ इत्येव । प्रभेदनं प्रभोजनम् । स्वरादित्यनेन नित्यं प्राप्ते विभाषेयम् । 'णेवा' (२।३।८८) पूर्वोक्तनिमित्तात्परस्य ण्यन्ताद्धातोर्विहितस्य स्वरादुत्तरस्य कृद्विषयस्य नस्य णो वा स्यात् । प्रमङ्गणा प्रमगना। प्रयापणं २ । प्रयापिणौ २ । अप्रयापणिः २ । प्रथापणीयम् २ । विहितविशेषणं किम् ? प्रयाप्यमाणः २ इति क्येन व्यवधानेपि यथा स्यात् । अलचटतवर्गशसान्तर इत्येव । प्रदापनम् । प्रतियापनम् । अनाम्यादिभ्यो धातुभ्यो नागमे सति नाम्यादेरेव ने ३० इति नियमेनाप्राप्ते शेषेभ्यस्तु स्वरादित्येव नित्यं प्राप्ते उभयत्र विभाषेयम् । *कचिदिति वचनात् क्वचिन्न स्यात् । तथा च सूत्रम् । 'न ख्यापूगभूभाकमगमप्यायवेपो णेश्च' (२।३।९०) प्रागुक्तणत्वनिमित्तात्परे ये ख्यादयो ण्यन्ताश्च धातवस्तेभ्य परस्य कृद्विषयस्य नस्य णो न स्यात् । प्रख्यानं प्रख्यायमानं प्रख्यायिनौ अप्रख्यानिः । प्रख्यानीयम् । पूग प्रपवनं प्रपूयमानं ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org