________________
९६४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
इक्षुभक्षिका में उपादि । प्रभे का त्वं कारिकामकार्षीः । का त्वं गणिकामजीगणः । आख्याने सर्वा कारिकामकार्षम् । सर्वां गणिमजीगणम् । बहुलाधिकारात् कचिन्न भवति । चिकीर्षा मे । बुभुक्षा मे उदपादि । प्रश्नाख्यानयोगेऽपि पर्यायादिषु परत्वात् णक एव भवति । अत्रायं विशेष: । 'नानि पुंसि च' (५।३।१२१) धातोः स्त्रियां भावाकर्नान्नि संज्ञायां णकः स्यात् । यथादर्शनं पुंसि च । ५ प्रच्छर्दनं प्रच्छर्धतेऽनयेति वा प्रच्छर्दिका वान्तिः । एवं प्रवाहिका अधिरजः प्रवृत्तिः । विचर्चिका प्रस्कन्दिका क्षयरोगः । विपादिका पादस्फोटः । एवमेता रोगसंज्ञाः । भज्यन्तेऽस्यां भञ्जिका । उद्दालकपुष्पाणां भञ्जिका उद्दालकपुष्पभञ्जिका । 'अकेन क्रीडाजीवे' ( ३|१|८१ ) इति समासः । एवं वारणपुष्पप्रचायिका । अभ्योषाः खाद्यतेऽस्यामित्यभ्योषखादिका । सालभञ्जिका । एवंनामान: क्रीडाः । बहुलाधिकारादिह न भवति । शिरोऽर्द्दनं शिरोर्त्तिः । एवं शीर्षार्त्तिः । शिरोभितप्तिः । १० चन्दनतक्षा क्रीडा । बहुलाधिकारादेव च अद्दिरित्यत्राईतेरर्दयतेश्च यथाक्रममप्रत्ययमनप्रत्ययं च बाधित्वा क्तिरेव स्यात् । पुंसि च; अरोचनं न रोचतेऽस्मिन्निति वा अरोचकः अनाशकः । उत्स्कन्दनं पृषोदरादित्वात्स लोपे उत्कन्दुकः उत्कर्णकः ॥ १७६ ॥ सूत्रम् । भावे ॥ ९७७ ॥ [ सि० ५।३।१२२ ] धात्वर्थनिर्देशे स्त्रियां धातोर्णकः स्यात् । शायिका ॥ १७७ ॥
** इति भावे स्त्रीप्रत्ययाः । 9+
१५
'भा०' स्पष्टम् ।। १७७ ॥ सूत्रम्
क्ली क्तः ॥ १७८ ॥ [ सि० ५|३ | १२३ ]
नपुंसके भावे क्तः स्यात् । तव हसितम् ॥ १७८ ॥
'क्ली०' क्तः स्यादिति घञाद्यपवादः स्त्रियां भावाकरिति च निवृत्तम् । तव हसितमिति । २० एवं नृत्तं मयूरस्य । व्याहृतं कोकिलस्य । क्कीब इति किम् ? हसः हास: ।। १७८ ।। सूत्रम्
'अनट्' ॥ १७९ ॥ भावेऽर्थे धातोरनट् स्यात् । गमनम् ॥
१७९ ॥
'अन०' स्पष्टम् । गमनमिति । एवं भोजनं वचनं हसनं छात्रस्य । टकार उत्तरत्र ङयर्थः । अत्रायं विशेषः ‘यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः' (५।३।१२५ ) येन कर्मणा संस्पृश्यमानस्य २५ कर्त्तुरङ्गस्य सुखमुत्पद्यते ततः कर्मणः पराद्धातोः क्लीवे भावेऽर्थेऽनट् स्यात् । पूर्वेणैव प्रत्यये सिद्धेनित्यसमासार्थं वचनम् । पयःपानम् । ओदनभोजनं सुखम् । नित्यसमासत्वात् पयसां पानमिति न कार्यं किन्तु पयसांपीतिरिति शब्दान्तरेणार्थः कथ्यते । कर्मेति किम् ? अपादानादिस्पर्शे मामूत् । तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कति किम् ? शिष्येण गुरोः स्नापनं सुखम् । स्नापयतेर्न गुरुः कर्त्ता किं तर्हि ? कर्म । अङ्गग्रहणं किम् ? पुत्रस्य ३० परिष्वजनं सुखम् । पुत्रस्पर्शान्न शरीरसुखम् । किं तर्हि ? मानसी प्रीतिः, अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् । सुखमिति किम् ? कण्टकानां मर्द्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तात्तसुः येन कर्मणा स्पृश्यमानस्य कर्त्तुरङ्गसुखमुत्पद्यते तस्मिन् कर्मण्यभिधेये सामर्थ्यात्कर्तुः पराद्धातोरनट् स्यादित्यपरोऽर्थः । राज्ञा भुज्यन्ते राजभोजनाः शालयः । राजाच्छादनाः प्राकाराः । ३४ राजपरिधानानि वासांसि ॥ १७९ ॥ सूत्रम् ।
Jain Education International
[
सि० ५|३ | १२४ ]
For Personal & Private Use Only
www.jainelibrary.org