________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां भावे स्त्रीप्रत्ययाः
भ्यादिभ्यो वा ॥ १७३ ॥ [ ५|३|११५]
भीः भीतिः ॥ १७३ ॥
'भ्यादि० ' ( ५|३|११५ ) बिभेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकर्त्रीः किप् वा स्यात् । भीः भीतिः । ह्रीः ह्रीतिः । लूः लूतिः । भूः भूतिः । कण्डूः कण्डूया । कृत् कृतिः । भित् भित्तिः । छित् छित्तिः । तुत् तुत्तिः । दृक् दृष्टिः । नशेः नक् नष्टिः । युजेः युक् युक्तिः । ज्वरे: जू: जूर्त्ति । ५ त्वरेः तूः तूर्त्तिः । अवतेः ऊः ऊतिः । श्रिवेः श्रूः श्रुतिः । मवतेः मूः मूतिः। नौते: नुत् नुतिः । शकेः शक् शक्ति: । अत्रायं विशेष: 'व्यतिहारेऽनीहादिभ्यो ञः' (५|३|११६ ) परस्य कृतप्रतिकृतिर्व्यतिहारः । एतद्विषयेभ्यो धातुभ्यः ईहादिवर्जेभ्यः स्त्रियां ञः स्यात् । बाहुलकाद्भावे क्त्यादीनामपवादः । परस्परमाक्रोशनं व्यावक्रोशी | व्याक्रोशी व्यावमोषी व्यावहासी व्यावलेखी व्यातिचारी व्यावचर्ची । व्यात्युक्षी 'य्वः पदान्तात् २' ( ७|४|५ ) इति १० ऐकारो न । 'नन स्वाङ्गादे:' ( ७।४।९) इति निषेधात् । अनीहादिभ्य इति किम् ? व्यतीहा व्यतीक्षा व्यतिपृच्छा व्यवहृतिः । व्युत्युक्षेत्यप्येके । 'नित्यं नञिनोऽणू' ( ७।३।५८ ) इति स्वार्थेऽण् वक्ष्यते । तेन केवलस्य प्रयोगो न स्यात् । 'श्रवादिभ्य' इति समावेशाभिधानात् व्यवक्रुष्टिः व्याक्रुष्टिरित्यपि भवति । स्त्रियामित्येव । व्यतिपाको वर्त्तते ॥ १७३ ॥ सूत्रम्
नञोऽनिः शापे ॥ १७४ ॥ [ सि० ५|३|११७ ]
१५
नञ्पूर्वाद्धातोः शापे गम्ये भावाकर्त्रीः स्त्रियामनिः स्यात् । अजननिस्ते भूयात् ॥ १७४ ॥ 'नञो०' अजननिरिति । एवमजीवनि: अकरणिः । 'स्वरात्' (२।३।८५ ) इति णत्वे अप्रयाणिः । अगमनिस्ते वृषल भूयात् । नव् इति किम् ? मृतिस्ते जाल्म भूयात् । शाप इति किम् ? अकृतिस्तस्य पटस्य ।। १७४ ॥
ग्लाहाज्यः ॥ १७५ ॥ [ सि० ५। ३ । ११८ ]
९६३
पर्यायार्णोत्पत्तौ च णकः ॥ १७६ ॥ [ सि० ५।३।१२० ]
Jain Education International
एभ्यो निः स्यात् । ग्लानिः । हानिः । ज्यानिः ॥ १७५ ॥
'ग्ला०' स्पष्टम् । ग्लानिः । म्लानिरित्यपि कश्चित् । अत्रायं विशेष: । 'प्रश्नाख्याने वेञ्' (५।३।११९) प्रश्ने आख्याने च गम्यमाने स्त्रियां भावाकर्घातोरिन् स्यात् । वावचनाद्यथाप्राप्तं च । का त्वं कारिमकार्षीः । पक्षे कां कारिकां कां कृत्यां कां कृतिम् । आख्याने सर्वां कारिमकार्षम् । पक्षे सर्वां कारिकां क्रियां कृत्यां कृतिं । का त्वं गणिमजीगणः । पक्षे कां गणिकां गणनां २५ सर्वां गणिमजीगणम् । सर्वा गणिकां सर्वां गणनाम् । एवं पाचिं पाचिकां पक्तिं पचां पचिं ।
पाठिं पाठिकां पठितिम् । प्रश्नाख्यान इति किम् ? कृतिः हृतिः ॥ १७५ ॥ सूत्रम्
२०
स्पष्टम् । भवत आसिका । इक्षुभक्षिका ॥ १७६ ॥
1
'पर्या॰' अस्यायमर्थः । पर्यायादिषु चतुर्ष्वर्थेषु प्रश्नाख्यानयोश्च गम्ययोः स्त्रियां भावाकर्णकः ३० स्यात् । क्ताद्यपवादः । पर्यायः क्रमः । आसिकेति; एवं भवतः शायिका अग्रगामिका । आसितुं शयितुं अग्रे गन्तुं च भवतः क्रम इत्यर्थः । अर्हणमर्हः योग्यता । अर्हति भवान् इक्षुभक्षक ओदनभोजिकां पयःपायिकाम् । ऋणं यत्परस्मै धार्यते । इक्षुभक्षिकां मे धारयसि । उत्पत्तिर्जन्म ३३
For Personal & Private Use Only
www.jainelibrary.org