________________
९६२ महामहोपाध्यावश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुविदा विचारणा । मृजा शरीरसंस्कारः। क्षिपा प्रेरणम् । दया अनुकम्पा । रुजा रोगः । चुरा चौर्यम् । पृच्छा प्रश्नः । एतेऽर्थविशेषे । अन्यत्र भित्तिः कुड्यम् । छित्तिः चौर्यादिकरणाद्राजापराधः । विच्छित्तिः प्रकार इत्यादि । तथा ऋकृहृधृतृभ्यः ५ संज्ञायां वृद्धिश्च । आरा शस्त्री, ऋतिरन्या । कारा गुप्तिः कृतिरन्या । हारा मानं, हृतिरन्या । धारा प्रपातः खड्गादेर्वा, धृतिरन्या । तारा ज्योतिः ५तीर्णिरन्या । तथा गुहिकुहिवसिवपितुलिक्षिपिक्षिणभ्यश्च संज्ञायाम् । गुहा पर्वतकन्दरा
ओषधिश्च, गूढिरन्या । कुहा नाम नदी, कुहनान्या । वसा स्नेहद्रव्यं धातुविशेषश्च, उष्टिरन्या । वपा मेदोविशेषः, उप्तिरन्या। एवं तुला उन्मानं । क्षिपा रात्रिः। क्षिया आचारभ्रंशः । तथा संज्ञायामेव रिखिलिखिशुभिसिधिमिधिगुधिभ्यो ६ गुणश्च । रिखिः लिखेः समानार्थः सौत्रः । रेखा राजिः । लेखा सैव । शोभा कान्तिः । सेधा सत्त्वम् । मेधा बुद्धिः । गोधा प्राणिविशेषः दोस्त्राणं च । १० भिदादिराकृतिगणः । तेन चूडेत्यऽपि सिद्धम् ।
'अकृतस्य क्रिया चैव प्राप्ते बाधनमेव च । अधिकार्थविवक्षा च त्रयमेतन्निपातनात्' ॥ १ ॥
आदिशब्दानुवृत्त्या 'भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः' (५।३।१०९) एभ्यो दशभ्यो ण्यन्तेभ्यो भावाकोंरङ् स्यात् । ण्यन्तत्वादने प्राप्ते वचनम् ।
भीषा भूषा चिन्ता पूजा कथा कुम्बा चर्चा स्पृहा तोला दोला । बहुवचनं यथादर्शनमन्येभ्योऽपि । १५ पीडा ऊना ॥ 'उपसर्गादातः' (५।३।११०) उपसर्गपूर्वेभ्यो आकारान्तेभ्यो धातुभ्यः स्त्रियां भावाकोरङ् स्यात् । उपदा उपधा आधा प्रधा प्रदा विधा सन्धा प्रमा । वादित्वात् क्तौ प्रमितिः । उपसर्गादिति किम् ? दत्तिः ॥ "णिवेत्त्यासश्रन्थघवन्देरनः' (५।३।१११) ण्यन्तेभ्यो वेत्तिप्रभृतिभ्यश्च त्रियां भावाकोंरनः स्यात् । कारणा हारणा धारणा पारणा । 'उपस्थिता शोणितपारणा मे' इति रघुवंशे । कामना लक्षणा भावना वेदना आसना उपासना २० श्रन्थना । ग्रन्थेरप्यन्ये । ग्रन्थना घट्टना वन्दना । वेत्तीति तिवानिर्देशो ज्ञानार्थपरिग्रहार्थः ॥ 'डषोनिच्छायाम' (५।३।११२) इषेरनिच्छायाम् वर्तमानात् स्त्रियां भावाकोरनः स्यात् । अन्वेषणा एषणा पिण्डैषणा । अनिच्छायामिति किम् ? इष्टिः । कथं इच्छायां प्राणैषणा वित्तषणा परलोकैषणेति ? बहुलाधिकारात् ॥ 'पर्या ' (।३।११३) परि-अधिपूर्वादिषेरनिच्छायां
भावाकोः स्त्रियामनो वा स्यात् । पर्येषणा परीष्टिः । अध्येषणा अधीष्टिः । अधीष्टिरिति २५ नेच्छन्त्यन्ये ॥ १७१ ॥ सूत्रम्
क्रुत्सम्पदादिभ्यः विप् ॥ १७२ ॥ [सि० ५।३।११४ ] क्रुध् । सम्पद् ॥ १७२ ॥ 'क्रु' क्रुधादिभ्योऽनुपसर्गेभ्यः पदादिभ्यश्च समादिपूर्वेभ्यः स्त्रियां भावकोंः किप् स्यात् । कुधेः क्रुत् । युधेः युत् । क्षुधेः क्षुत् । तृषेः तूंट् । त्विषेः त्विट् । रुषेः रुट् । रुजेः रुट् । रुचेः रुक् । ३० शुचेः शुक् । मुदेः मुत् । मृदेः मृत् । गृ गीः । त्रै त्रा। दिशेः दिक् । सृजेः स्रक् । तथा पदेः
सम्पद् विपत् आपत् व्यापत् प्रतिपद् । षद्लं, संसत् परिषद् उपश्रुत् । उ परिस्रुत् । विदेः निवित् । शासेः प्रशीः आशीः । श्रु प्रतिश्रुत् उपश्रुत् । स्तु परिस्तुत् । नहेः उपानत् । वृषेः प्रावृट् ।
ग्रुषेः विघुट् । वृतेः नीवृत् उपावृत् । यतेः संयत रणः । समित् । भृगः उपभृत् । इन्धेः समित् । ३४ धादिः । सम्पदादिराकृतिगणः ॥ १७२ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org